________________
प्रथममध्ययनम् एकस्थानकम् ।
दारक्कमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मइ नाऽणत्थं नाऽणुगमो नयमयविहणो ।। [विशेषाव० ९१५] त्ति ८। तदेवं फलादीन्युक्तानि । साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुचिन्त्यते। तत्रोपक्रमो द्विविधः-लौकिक: शास्त्रीयश्च, लौकिक: षोढा- नाम-स्थापना-द्रव्य-क्षेत्रकाल-भावभेदात् । तत्र नाम-स्थापने क्षुण्णे । द्रव्योपक्रमो द्वेधा- सचेतना-ऽचेतन- 5 मिश्र-द्विपद-चतुष्पदा-ऽपदरूपस्य द्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म गुणान्तरोत्पादनम्, विनाशः प्रसिद्ध एव । एवं क्षेत्रस्य शालिक्षेत्रादेः, कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादिभिः परिज्ञानम्, भावस्य च गुर्वादिचित्तलक्षणस्याऽनवगतस्येङ्गितादिभिरवगम इति । ___ शास्त्रीयोऽपि षो ढैव- आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थाधिकार- 10 समवतारभेदात् । तत्राऽऽनुपूर्वी दशधाऽन्यत्रोक्ता। तत्रोत्कीर्तन-गणनानुपूर्कोरिदमवतरति, उत्कीर्त्तनं च ‘एकस्थानं द्विस्थानं त्रिस्थानम्' इत्यादि, गणनं तु परिसङ्ख्यानम् ‘एकं द्वे त्रीणि' इत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा- पूर्वानुपूर्वी पश्चानुपूय॑नानुपूर्वी चेति, पूर्वानुपूर्येदं प्रथमं सद् व्याख्यायते, पश्चानुपूर्व्या दशमम्, अनानुपूर्व्या त्वनियतमिति। तथा नाम दशधा- एकादि दशान्तम्, तत्र षड्नाम्न्यस्यावतारः, तत्रापि क्षायोपशमिके 15 भावे, क्षायोपशमिकभावरूपत्वात् सकलश्रुतस्येति, उक्तं च
छव्विहनामे भावे खओवसमिए सुयं समोयरति । जं सुयणाणावरणक्खओवसमजं तयं सव्वं ॥ [विशेषाव० ९४५] ति । तथा प्रमाणं द्रव्यादिभेदाच्चतुर्विधम्, तत्र क्षायोपशमिकभावरूपत्वादस्य भावप्रमाणे अवतारः, यत आह
दव्वादी चउभेयं पमीयते जेण तं पमाणं ति । इणमज्झयणं भावो त्ति भावमाणे समोयरति ॥ [विशेषाव० ९४६] त्ति ।
भावप्रमाणं च गुण-नय-सङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाण-सङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्प्रति, यदाह__ मूढनइयं सुयं कालियं तु न नया समोयरंति इहं ।
अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥ [आवश्यकनि०७६२, विशेषाव० २२७९] त्ति। "र्तनं एक पा० जे२ । २. "वस्वरूप पा० जे२ ॥ ३. पुहुत्ते जे१ खं० ॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org