SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सोऽनुयोग इति । आह च अणुजोजणमणुजोगो सुयस्स नियएण जमभिधेयेण । वावारो वा जोगो जो अणुरूवोऽणुकूलो वा॥ [विशेषाव० १३८६) इति। अथवा अर्थापेक्षया अणोः लघो: पश्चाज्जाततया वा अनुशब्दवाच्यस्य सूत्रस्य 5 योऽभिधेये योगो व्यापारस्तेन सम्बन्धो वा सोऽणुयोगोऽनुयोगो वेति । आह च अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणुं तस्स ।। अभिधेये वावारो जोगो तेणं व संबंधो ॥ [विशेषाव० १३८७] त्ति । तस्य द्वाराणीव द्वाराणि तत्प्रवेशमुखानि, एकस्थानकाध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः । नगरदृष्टान्तश्चात्र, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि 10 दुरधिगम कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवमेकस्थानकाध्ययनपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमम्, सप्रभेदचतुर्दारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यास इति ५। तानि च द्वि-त्रि-द्वि-द्विभेदानि क्रमेण भवन्तीति तद्भेदाः ६। 15 निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते वाऽनेन गुरुवागयोगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादानसाधन इति । एवं निक्षेपणं निक्षेपः, निक्षिप्यते वाऽनेनास्मिन्नस्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः । एवमनुगमनमनुगमः, 20 अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्य न्यासानुकूल: परिच्छेदः । एवं नयनं नयः, नीयतेऽनेनास्मिन्नस्मादिति वा नयः, अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः ७। अथैषामुपक्रमादिद्वाराणामित्थं क्रमे किं प्रयोजनमिति ?, अत्रोच्यते, न ह्यनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं 25 नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy