________________
प्रथममध्ययनम् एकस्थानकम्।
[सू० १] लोकोत्तरश्चाऽऽचार्योपाध्याय-प्रवर्त्ति-स्थविर-गणावच्छेदिकरूप इति, तस्य स्थानं पदं प्रग्रहस्थानमिति । तथा योधानां स्थानम् आलीढ-प्रत्यालीढ-वैशाख-मण्डल-समपादरूपं शरीरन्यासविशेषात्मकं योधस्थानम् । तथा अचल त्ति अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानम् । तथा गणण त्ति गणनाविषयं स्थानमेकट्यादि शीर्षप्रहेलिकापर्यन्तं गणनास्थानम् । तथा सन्धानं द्रव्यतश्छिन्नस्य 5 कञ्चुकादेरच्छिन्नस्य तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताऽप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्य त्वपरापरोत्पद्यमानस्य प्रशस्ता-ऽप्रशस्तभावस्य सन्धानम्, तदेव स्थानं वस्तुनः संहतत्वेनावस्थानं सन्धानस्थानम् । भावे त्ति भावानाम्
औदयिकादीनां स्थानम् अवस्थितिरिति भावस्थानमिति । एवमिह स्थानशब्दोऽनेकार्थः, इह च वसतिस्थानेन गणनास्थानेन चाऽधिकार इति दर्शयिष्यते । इदानीमङ्गनिक्षेप उच्यते, तत्र गाथा - नामंगं ठवणंगं दव्वंग चेव होइ भावंगं । एसो खलु अंगस्सा णिक्खेवो चउव्विहो होइ ॥ [उत्तराध्ययननि० १४४] त्ति।
तत्र नाम-स्थापने प्रसिद्धे, द्रव्याङ्गं पुनर्रव्यस्य मद्यौषधादेरङ्गं कारणमवयवो वेति द्रव्याङ्गम्, भावस्य क्षायोपशमिकादेरेवमेवाङ्गं भावाङ्गमिति, इह च भावाङ्गेनाधिकार 15 इत्यपि दर्शयिष्यते ।
तत्र तिष्ठन्त्यासते वसन्ति यथावदभिधेयतयैकत्वादिविशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम्, अथवा स्थानशब्देनेहैकादिकः सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायकत्वादाचारवदिति। स्थानं च तत् प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्गं चेति 20 स्थानाङ्गमिति समुदायार्थः ४।।
तत्र च दशाऽध्ययनानि, तेषु प्रथममध्ययनमेकादित्वात् सङ्ख्याया एकसङ्ख्योपेताऽऽत्मादिपदार्थप्रतिपादकत्वात् ‘एकस्थानम्', तस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा- उपक्रमो निक्षेपोऽनुगमो नयश्चेति । तत्र अनुयोजनमनुयोगः, सूत्रस्यार्थेन सह सम्बन्धनम् । अथवा अनुरूपोऽनुकूलो वा यो योगो व्यापारः सूत्रस्यार्थप्रतिपादनरूप: 25 १. च्छेदक पासं० जे२ । दृश्यतां सू० १८३, ३२३ ।। २. `त्पाद्यमा जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org