________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मङ्गलं स्याद्, यथा साधुः, इत्यलं प्रसङ्गेनेति । इह च शास्त्रस्य मङ्गलादि निरूपितमपि तदनुयोगस्य द्रष्टव्यम्, तयोः कथञ्चिदभेदादिति ३।
अथेदानी समुदायार्थश्चिन्त्यते । तत्र स्थानाङ्गमित्येतच्छास्त्रस्य नाम । नाम च यथार्थादिभेदात् त्रिविधम्, तद्यथा- यथार्थमयथार्थमर्थशून्यं च। तत्र यथार्थं प्रदीपादि, 5 अयथार्थं पलाशादि, अर्थशून्यं डित्थादि । तत्र यथार्थं शास्त्राभिधानमिष्यते, तत्रैव
समुदायार्थपरिसमाप्तेः। यत एवमतस्तन्निरूप्यते- तत्र च स्थानमङ्गं चेति पदद्वयं निक्षेपणीयमिति, तत्र स्थानं नाम-स्थापनादिभेदात् पञ्चदशधा, यदाह
नाम ठवणा दैविए खेत्तद्धा उड्ड उवरती वसही।।
संजम-पग्गह-जोहे' अचल-गणण-संधा -भावे ॥ [आचाराङ्गनि० १८४] त्ति । 10 तत्र स्थानमिति नामैव नामस्थानम्, यस्य वा सचेतनस्याचेतनस्य वा स्थानमिति
नाम क्रियते तद्वस्तु नाम्ना स्थानं नामस्थानमित्युच्यते। तथा स्थाप्यत इति स्थापना अक्षादिः, सा स्थानाभिप्रायेण स्थाप्यमाना स्थानमित्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानम् । तथा द्रव्यं सचित्ता-ऽचित्त-मिश्रभेदं स्थानं गुण-पर्यायाश्रयत्वात्,
ततः कर्मधारय इति । तथा क्षेत्रम् आकाशम्, तच्च तत् स्थानं च द्रव्याणामाश्रयत्वात् 15 क्षेत्रस्थानम् । तथा अद्धा कालः, स च स्थानम्, यतो भवस्थितिः कायस्थितिश्च भवकालः कायकालश्चाभिधीयते, स्थितिश्च स्थानमेवेति। उड्ढ त्ति ऊर्ध्वतया स्थानम्
अवस्थानं पुरुषस्य ऊर्द्धवस्थानं कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवं निषण्ण-त्वग्वर्तनादिस्थानमपि द्रष्टव्यम्, ऊर्द्धवशब्दस्योपलक्षणत्वादिति । तथा उपरति:
विरतिः, सैव स्थानं विविधगुणानामाश्रयत्वात्। विशेषार्थो वेह स्थानशब्दः, ततो विरते: 20 स्थानं विशेषो विरतिस्थानम्, तच्च देशविरतिः सर्वविरतिर्वेति। तथा वसतिः
स्थानमुच्यते, स्थीयते तस्मिन्निति कृत्वेति। तथा संयमस्य स्थानं संयमस्थानम्, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षा-ऽपकर्षकृतो विशेषः संयमस्थानम् । तथा प्रगृह्यते उपादीयते आदेयवचनत्वाद्यः स प्रग्रहो ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्चेति, तत्र लौकिको राज-युवराज-महत्तरा-ऽमात्य-कुमाररूपः,
सूत्रकृ० नि० १६७, दशाश्रुत० नि० १०, उत्तरा० नि० ३८४, ५२२ ॥ २. अक्षादि पा० ॥ ३. सा च स्थाना' पा० जे२ ॥ ४. नमप्यभि पा० जे२ ॥ ५. ऊर्द्ध खं० पा० जे२। एवमग्रेऽपि । 'ऊर्द्धव इति ऊर्द्ध इति उभयथाऽप्ययं शब्दः संस्कृतभाषायामुपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org