________________
[सू० १]
प्रथममध्ययनम् एकस्थानकम् ।
दस - कप्प - व्ववहारा संवच्छरपणगदिक्खियस्सेव ।
ठाणं समवाओ वि य अंगे ते अट्ठवासस्स || [ पञ्चवस्तु० ५८२ - ५८३ ] त्ति ।
अन्यथा दानेऽस्याऽऽज्ञाभङ्गादयो दोषा इति २।
तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्त्तेरन्निति तदुपशमाय मङ्गलमुपदर्शनीयम्, उक्तं च
बहुविग्घा सेयाइं तेण कयमंगलोवयारेहिं ।
घेत्तव्वो सो सुमहानिहि व्व जह वा महाविज्जा ।। [विशेषाव० १२] इति
३
मङ्गलं च शास्त्रस्याऽऽदि-मध्या - ऽवसानेषु क्रमेण शास्त्रार्थस्याऽविघ्नेन परिसमाप्तये तस्यैव स्थैर्याय तस्यैवाऽव्यवच्छेदाय च भवतीति, तदुक्तम्
तं मंगलमाईए मज्झे पज्जंतए य सत्थस्स ।
पढमं सत्थत्थाविग्घपारगमणाय निहिं ||
तस्सेव य थेज्जत्थं मज्झिमयं अंतिमं पि तस्सेव ।
अव्वोच्छित्तिनिमित्तं सिस्स- पसिस्साइवंसस्स ॥ [विशेषाव० १३-१४] त्ति ।। तत्रादिमङ्गलं सुयं मे आउसंतेणं भगवया [सू० १] इत्यादिसूत्रम्, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भत्वाद्वा आयुष्मता भगवतेत्यस्य, नन्दी -भगवद्बहुमानयोश्च 15 मङ्ग्यते अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति ।
मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं पंच महव्वंये [सू० ३८९]त्यादि, महाव्रतानां क्षायिकादिभावतया मङ्गलत्वात्, भवति हि क्षायिकादिको भावो मङ्गलम्, यत उक्तम्
5
Jain Education International
नोआगमओ भावो सुविसुद्धो खाइयाइओ । [ विशेषाव० ४९ ] ।
अथवा षष्ठाध्ययनादिसूत्रं छहिं ठाणेहिं संपन्ने अणगारे अरहई गणं धरित्तए 20 [सू० ४७५] इत्यादि, अनगारस्य परमेष्ठिपञ्चकान्तर्गतत्वेन मङ्गलत्वात्, तत्सूत्राभिधेयानां वा गणधैरणस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति ।
For Private & Personal Use Only
10
अन्तमङ्गलं तु दशमाध्ययनस्यान्तसूत्रं दसगुणलुक्खा पोग्गला अणंता पण्णत्ता [सू० ७८३] इति, इहाऽनन्तशब्दस्य वृद्धिशब्दवन्मङ्गलत्वादिति ।
सर्वमेव वा शास्त्रं मङ्गलम्, निर्ज्जरार्थत्वात्, तपोवत् । मङ्गलभूतस्यापि शास्त्रस्य 25 यो मङ्गलत्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थम्, मङ्गलतया हि परिगृहीतं शास्त्रं १. ॰व्वएत्यादि खं० । ॰व्वए इत्यादि पा० जे२ । २. 'त्वात् । सूत्रा पा० जे२ ॥ ३. 'धरस्था' जे२ ॥
www.jainelibrary.org