SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दर्शनरूपप्रधानप्रणिध्यवबुद्धसर्व विषयग्रामस्वभावस्य सकलत्रिभुवनातिशायिपरमसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमगम्भीरान्महार्थादुपदेशाद् निपुणबुद्ध्यादिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गणधरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरत्नसारस्य 5 देवताधिष्ठितस्य विद्या-क्रि याबलवताऽपि पूर्वपुरुषेण के नापि कुतोऽपि कारणादनुन्मुद्रितस्याऽत एव च केषाञ्चिदनर्थभीरूणां मनोरथगोचरातिक्रान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधा_प्रधानैः स्वपरोपकारायाऽर्थविनियोजनाभिलाषिभिरत एव चाविगणितस्वयोग्यतै निपुणपूर्व पुरुषप्रयोगानुपश्रुत्य किञ्चित् स्वमत्योत्प्रेक्ष्य तथाविधवर्तमानजनानापृच्छ्य च तदुपायान् 10 द्यूतादिमहाव्यसनोपहतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्तावना । तस्य चानुयोगस्य फलादिद्वारनिरूपणतः प्रवृत्तिः, यत उक्तम् - तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई। तब्भेय-निरुत्ति-क्कमपयोयणाइं च वच्चाई ॥ [विशेषाव० २] ति । तत्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम्, अन्यथा हि निष्प्रयोजनत्व15 मस्याऽऽशङ्कमानाः श्रोतारः कण्टकशाखामईन इव न प्रवर्तेरनिति। तच्चानन्तर परम्परभेदाद् द्विधा । तत्रानन्तरमावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्तिर्या सा परम्परं प्रयोजनमिति १। तथा योगः सम्बन्धः, स च यद्युपायोपेयभावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा स प्रयोजनाभिधानादेवाभिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः, 20 कोऽस्य दाने सम्बन्धोऽवसर इति भावः, योग्यो वा दाने अस्य क इति । तत्र भव्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽष्टवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपि स्थानाङ्गं देयमित्ययमवसरः । योग्योऽपि चायमेवेति। यथोक्तम्तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं सूयगडं नाम अंगं ति ।। 'गुणमाणि' जे२ पा० ॥ २. नोपेतै जे२ ॥ ३. "त्रिवर्षपर्यायस्यैव नाऽऽरतः आचारप्रकल्पनाम निशीथाभिधानमध्ययनं वाच्यत इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यगस्खलितस्य सूत्रकृतं नाम अङ्गं द्वितीयमिति गाथार्थः ॥५८२॥ दशा-कल्प-व्यवहारास्त्रयोऽपि पञ्चसंवत्सरदीक्षितस्यैव, स्थानं समवाय इति चाङ्गे एते द्वे अप्यष्टवर्षस्येति गाथार्थः ॥५८३।।'- पञ्चव० स्वो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy