________________
*.
प्रथममध्ययनम् एकस्थानकम् । ॐ नमो वीतरागाय ।
श्री वीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽन्यशास्त्रदृष्टं करोम्यहं विवरणं किञ्चित् ॥
इह हि श्रमणस्य भगवतः श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजसूनोर्महाराजस्येव परमपुरुषकाराक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्षक्षमापतिशतसततसेवितपादपद्मस्य सकलपदार्थसार्थसाक्षात्करणदक्षकेवलज्ञान
जेर
॥ अर्हम् ॥ नवाङ्गीटीकाकारश्रीमदभयदेवसूरिविरचितविवरणसमेतं
पञ्चमगणधरदेवश्री सुधर्मस्वामिसन्दृब्धं श्री स्थानाङ्गसूत्रम् ।
अत्रेदमवधेयम् - प्राचीनान् तालपत्र कागजपत्रोपरिलिखिताननेकान् हस्तलिखितादर्शानवलम्ब्य स्थानाङ्गसूत्रस्य संशोधनमस्माभिर्विहितम्, तच्च मुम्बईनगरस्थेन श्री महावीरजैनविद्यालयेन विक्रमसंवत् २०४१ वर्षे [1985 A.D.] वर्षे जैन आगम ग्रन्थमालायां ग्रन्थाङ्क ३ रूपेण प्रकाशितम् । तत्र तालपत्र कागजपत्रात्मकग्रन्थेभ्यो बहूनि पाठान्तराण्यपि टिप्पनेषु दर्शितानि । बहूनि परिशिष्टान्यपि तत्र सन्ति । प्रस्तावनायामपि बहवो विषयाश्चर्चितास्तत्र । अतो विस्तरेण जिज्ञासुभिः तत्रैव विलोकनीयम् । सम्प्रति आचार्यश्री अभयदेवसूरिविरचितया टीकया सह स्थानाङ्गसूत्रमत्र प्रकाश्यते । तत्र ग्रन्थाङ्क १३ मध्ये निर्दिष्टो यो मूलपाठः स एव प्रायोऽत्र यथावदुपन्यस्तः । अस्मिन् टीकासहितस्य स्थानाङ्गसूत्रस्य संस्करणे एकोऽधिकः भां. आदर्शोऽपि उपयुक्तोऽस्माभिः । तत्स्वरूपम् - भां० = भाण्डारकर रिसर्च इन्स्टीट्यूट [ भण्डार संदर्भाङ्क 70 (80-81) सूचीपत्र नं. 1-59] (पुणे, महाराष्ट्र) मध्ये विद्यमानः तालपत्रोपरि लिखितः प्राचीन आदर्शः । सम्प्रति अत्र आदिमानि अन्तिमानि च कतिपयपत्राणि न सन्ति । बहूनि प्रारम्भिकाणि पत्राणि त्रुटितानि खण्डितानि च सन्ति । अत्र भां. प्रतौ केचिद् विशिष्टाः पाठाः पाठभेदा वा सन्ति । तेऽप्यत्र टीकासहिते स्थानाङ्गसूत्रेऽस्माभिर्यथायोगं निर्दिष्टाः । आचार्यश्रीअभयदेवसूरिविरचितायाः स्थानाङ्गटीकायाः संशोधने ये हस्तलिखिता आदर्शा अस्माभिरत्र उपयुक्ताः तेषां स्वरूपमत्र निर्दिश्यते
जे१ = जेसलमेरुदुर्गे खरतरगच्छीयाचार्य श्रीजिनभद्रसूरिसंस्थापिते ग्रन्थभाण्डागारे विद्यमाना तालपत्रोपरि लिखिता प्रतिः, सूचिपत्रानुसारेण ग्रन्थाः ६, पत्राणि १ ३४६ । प्रायो वैक्रमस्य त्रयोदशशतकस्य उत्तरार्धे लिखितेयं प्रतिः ।
11.
जेसलमेरुदुर्गे उपरि निर्दिष्टे ग्रन्थभाण्डागारे विद्यमाना तालपत्रोपरि लिखिता प्रतिः, ग्रन्थाङ्कः ७, अत्रादौ १-८७ पत्रेषु स्थानाङ्गसूत्रं मूलमात्रं वर्तते, ततः परम् १ ३४९ पत्रेषु आचार्यश्री अभयदेवसूरिविरचिता टीका वर्तते । विक्रमसंवत् १४८६ वर्षे माघवदिपञ्चम्यां सोमवासरे श्री स्तम्भतीर्थे परीक्षाधरणाकेन लिखापितेयं प्रतिः ।
Jain Education International
खं० = खम्भातनगरे श्री शान्तिनाथजैनग्रन्थभाण्डागारे विद्यमाना तालपत्रोपरिलिखिता प्रतिः Catagogue of Palm - leai Jain Manuscripts in Shantinatha Jain Bhandara, Cambay अनुसारेणास्य ग्रन्थाङ्कः ८, पत्राणि १-३२०। प्रायः वैक्रमस्य चतुर्दशशतकस्य पूर्वार्धे लिखितेयं प्रतिः ।
पा० = पाटणनगरे श्रीसंघवीपाडाभण्डारसत्का तालपत्रोपरि लिखिता प्रतिः । ग्रन्थाङ्कः ३८ | पत्राणि १ - ३६८ । सम्प्रति सर्वोऽप्यं संघवीपाडाभण्डारसत्कग्रन्थसंग्रहः पाटण [ = अणहिलपुरपत्तन ] नगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे वर्तते ।
१. नमः श्रीवर्धमानाय खं० । अर्ह जे२ पा० ॥
For Private & Personal Use Only
www.jainelibrary.org