________________
प्रथमं परिशिष्टम् - टिप्पनानि ।
वसहिं अणुण्णविंतो, जइ भण्णइ कइ जण त्थ तो न वसे । सुहुमं पि न सो इच्छ, परस्स अप्पत्तियं भगवं ॥१३९६ ॥ वसतिमनुज्ञापयन् यद्यसौ भण्यते 'कति जना यूयं वत्स्यथ ?' इति तत्रापि न वसति, कुतः ? इत्याह- सूक्ष्ममपि नासाविच्छति परस्याप्रतीतिकं भगवान् । 'कइ जणा उ' त्ति अत्र यस्तुशब्दस्तेनान्यामपीषदप्रीतिकजननीं वसतिमसौ परिहरतीति गम्यते २० । उक्तञ्च पञ्चवस्तुके- 'सुहुमं पि हु अचियत्तं, परिहरए सो परस्स नियमेणं । जं तेण तुसद्दाओ, वज्जइ अन्नं पि तज्जणणिं ॥ ' ( गा० १४५० ) ॥१३९६ ॥
भिक्षाचर्या-पानक-लेपालेप - ( अलेप) द्वाराणि विवृणोति
तइयाइ भिक्खचरिया, पग्गहिया एसणा य पुव्वत्ता । एमेव पाणगस्स वि, गिues अ अलेवडे दो वि ॥१३९७ ॥ ततीयस्यां पौरुष्यां भिक्षाचर्या एषणा च ' प्रगृहीता' अभिग्रहयुक्ता, सा च 'पंचसु गह दोसऽग्गहु' (गा० १३६२ ) इत्यादिना पूर्वमेवोक्ता २१ । एवमेव पानकस्यापि तृतीयपौरुष्यां प्रगृहीतया चैषणया ग्रहणं करोति २२ । अत्र शिष्यः पृच्छति - 'लेवालेवे' त्ति मिसौ जिनकल्पिको लेपकृतं गृह्णाति ? उतालेपकृतम् ? २३ । अत्र सूरिः - 'अलेवे' त्ति पदं विवृण्वन्नुत्तरमाह- ‘द्वे अपि' भक्त - पाने 'अलेपकृते' वल्ल - चणक - सौवीरादिरूपे गृह्णाति न लेपकृते २४ ॥१३९७॥ आयामाम्ल - प्रतिमाद्वारद्वयमाह
आयंबिलं न गिves, जं च अणायंबिलं पि लेवाडं । न य पडिमा अडिवज्जइ, मासाई जा य सेसाओ ।। १३९८ ।। आयामाम्लमसौ न गृह्णाति, पुरीषभेदादिदोषसम्भवात्; अनायामाम्लमपि यद् लेपकृतं तन्न गृह्णाति २५ । न च प्रतिमा मासिक्यादिका असौ प्रतिपद्यते । याश्च 'शेषाः ' भद्र- महाभद्रादिकाः प्रतिमास्ता अपि न प्रतिपद्यते, स्वकल्पस्थितिप्रतिपालनमेव तस्य विशेषाभिग्रह इति भावः २६ || १३९८ || अथ मासकल्प इति द्वारमभधित्सुराह
२५
कप्पे सुत्त - ऽत्थविसारयस्स संघयण - विरियजुत्तस्स । जिणकप्पियस्स कप्पइ, अभिगहिया एसणा निच्चं ।। १३९९॥ कल्पे जिनकल्पविषयौ यौ सूत्रार्थी तत्र विशारदस्य निपुणस्य संहननं शारीरबलं वीर्यं धृतिस्ताभ्यां युक्तस्य जिनकल्पिकस्य कल्पते अभिगृहीता साभिग्रहा एषणा || १३९९ ।। सा च मासकल्पस्थितिमनुपालयतो भवतीत्यतस्तस्यैव विधिमाह -
छव्वीहीओ गामं, काउं एक्किक्वियं तु सो अडइ । वज्जेउं होइ सुहं, अनिययवित्तिस्स कम्माई ||१४००|| यत्रासौ मासकल्पं करोति तं ग्रामं 'षड् वीथीः' गृहपङ्क्तिरूपाः कृत्वा ततः प्रतिदिनमेकैकां वीथीमटति यावत् षष्ठे दिवसे षष्ठीम् । कुतः ? इत्याह- अनियतवृत्तेरपरापरवीथीषु पर्यटतः ‘कर्मादि' आधाकर्म- पूतिकर्मादिकं सुखं वर्जयितुं भवति' सुखेनैव परिहर्तुं शक्यत इति भावः ॥ १४००||” - बृहत्कल्पसूत्रटीका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org