________________
२४
प्रथमं परिशिष्टम्- टिप्पनानि ।
न चासौ 'दीर्धेऽपि' बहुदैवसिके उपसर्गे ‘उभयमपि' संज्ञां कायिकी च ‘अस्थण्डिले' आपातादिदोषयुक्ते भूभागे करोति ७ ॥१३९०॥ वसतिद्वारमाह
अममत्त अपरिकम्मा, नियमा जिणकप्पियाण वसहीओ । एमेव य थेराणं, मुत्तूण पमजणं एक्कं ॥१३९१॥ अममत्वा ममे यमित्यभिष्वङ्गरहिता अपरिकर्मा साध्वर्थमुपलेपनादिपरिकर्मवर्जिता नियमाद् जिनकल्पिकानां वसतिः । स्थविरकल्पिकानामप्येवमेव वसतिरममत्वा अपरिकर्मा च द्रष्टव्या, मुक्त्वा प्रमार्जनामेकामन्यत् परिकर्म तेऽपि न कुर्वन्तीत्यर्थः ॥१३९१।। एतदेव स्पष्टयति
विले न ढक्कंति न खजमाणिं, गोणाइ वारिंति न भजमाणिं । दारे न ढक्कंति न वऽग्गलिंति, दप्पेण थेरा भइआ उ कज्जे ॥१३९२॥ एते भगवन्तो बिलानि धूल्यादिना न स्थगयन्ति, न वा गवादिभिः खाद्यमानां भज्यमानां वा वसतिं निवारयन्ति, द्वारे न ढक्कंति कपाटाभ्यां न संयोजयन्ति, न वा अर्गलयन्ति नार्गलया नियत्रयन्ति । स्थविरकल्पिका अपि 'दर्पण' कार्याभावे एवमेव न वसतेः पकिरर्म कुर्वन्ति, 'कार्ये तु' पुष्टालम्बने ‘भाज्याः' परिकर्म कुर्वन्त्यपीति भावः ८ ॥१३९२॥ कियच्चिरोच्चार
प्रश्रवणा-ऽवकाश-तृणफलक-सरंक्षण-संस्थापनाद्वाराणि गाथाद्वयेन भावयति
किच्चिरकालं वसिहिह, इत्थ य उच्चारमाइए कुणसु । इह अच्छसु मा य इहं, तणफलए गिण्हिमे मा य ॥१३९३॥ सारक्खह गोणाई, मा य पडिंति उविक्खहउ भंते ! । अन्नं वा अभिओगं, नेच्छंतऽचियत्तपरिहारी ॥१३९४॥ यस्यां वसतौ याच्यमानायां तदीयस्वामिन इत्थं भणन्ति- कियच्चिरं कालं वत्स्यथ यूयम् ? ९, यद्वा ‘अत्र' प्रदेशे उच्चारादीनि पुरीषप्रश्रवणादीनि कुरु, अत्र तु मा कुरु १०-११, ‘इह' अस्मिन्नवकाशे आसीथाः, इह मेति १२, ‘एतानि वा' हस्तसंज्ञया निर्दिश्यमानानि तृण-फलकानि गृह्णीयाः मा एतानीति १३, संरक्षत वा गवादीन् बहिर्निर्गच्छतो यूयमस्माकं क्षेत्रादौ गतानां व्याकुलानां वा १४, मा च पतन्तीं वसतिमुपेक्षध्वं किन्तु ‘संस्थापना' पुनःसंस्काररूपा विधेया १५। 'संठवणया य' त्ति (गाथा १३८३) द्वारगाथायां यश्चशब्दस्तेन सूचितमन्यं वा स्वाध्यायनिषेधादिरूपं यत्र वसतिस्वामी अभियोगं नियन्त्रणं करोति तं समनसाऽपि नेच्छन्ति, सूक्ष्मस्याप्यप्रतीतिकस्य परिहारिणोऽमी भगवन्त इति ॥१३९३-१३९४॥
प्राभृतिका-ऽग्नि-दीपा-ऽवधानद्वाराणि व्याचष्टे
पाहुडिय दीवओ वा, अग्गि पगासो व जत्थ न वसन्ति । जत्थ य भणंति ठंते, ओहाणं देह गेहे वि ॥१३९५॥ यस्यां वसतौ ‘प्राभृतिका' बलिः क्रियते १६ दीपको वा यस्यां विधीयते १८ ‘अग्निः' अङ्गार-ज्वालादिकस्तस्य प्रकाशो वा यत्र भवति तत्र न वसन्ति १७ । यत्र च तिष्ठति सत्यगारिणो भणन्ति अस्माकमपि गेहे 'अवधानम्' उपयोगं ददतेति तत्रापि नावतिष्ठन्ते १९ ॥१३९५॥ वत्स्यथ कति जनाः? इति द्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org