________________
प्रथमं परिशिष्टम् - टिप्पनानि ।
द्वारगाथात्रयसमुदायार्थः ।। १३८२ - १३८४ ।। अतावयवार्थं प्रतिद्वारं प्रतिपिपादयिषुः 'यथोद्देशं निर्देशः ' इति न्यायात् प्रथमतः श्रुतद्वारमाह
आयारवत्थुतइयं, जहन्नयं होड़ नवमपुव्वस्स । तहियं कालण्णाणं, दस उक्कोसेण भिन्नाई ।।१३८५।। जिनकल्पिकस्य जघन्यकं श्रुतं ' नवमपूर्वस्य' प्रत्याख्याननामकस्याचाराख्यं तृतीयं वस्तु तस्मिन्नधीते सति कालज्ञानं भवतीत्यतस्तदर्वाक्छुतपर्याये वर्त्तमानस्य न जिनकल्पप्रतिपत्तिः । उत्कर्षतो दश पूर्वाणि भिन्नानि श्रुतपर्यायः । सम्पूर्णदशपूर्वधरः पुनरमोघवचनतया प्रवचनप्रभावनापरोपकारादिद्वारेणैव बहुतरं निर्जरालाभमासादयति अतो नासौ जिनकल्पं प्रतिपद्यते || १३८५ ।। उक्तं श्रुतद्वारम् १। अथ संहननद्वारमाह
पढमिल्लुगसंघयणा, धिईए पुण वज्जकुड्डुसामाणा । उप्पज्जंति न वा सिं, उवसग्गा एस पुच्छा उ ।।१३८६॥ जिनकल्पिकाः प्रथमिल्लुकसंहननाः' वज्रर्षभनाराचसंहननोपेताः ‘धृत्या' अङ्गीकृतनिर्वाहक्षममनःप्रणिधानरूपया वज्रकुड्यसमानाः २ । अथोपसर्गद्वारम् - उत्पद्यन्ते न वा अमीषामुपसर्गा देव्यादयः ? इत्येषा पृच्छा || १३८६ ॥ अत्रोत्तरमाह
जड़ व य उपजंते, सम्मं विसहंति ते उ उवसग्गे । रोगातंका चेवं, भइआ जइ होंति विसर्हति ।।१३८७।। नायमेकान्तो यदवश्यमेतेषामुपसर्गा उत्पद्यन्ते, परं यद्युत्पद्यन्ते तथापि सम्यगदीनमनसो विषहन्ते तानुपसर्गान् ३ । आतङ्कद्वारमतिदिशति - रोगाश्च कालसहाः आतङ्काश्च सद्योघातिनः एवमेव 'भाज्या: ' उत्पद्यन्ते वा न वा । यदि ' भवन्ति उत्पद्यन्ते ततो नियमाद् विषहन्ते ४ ॥ १३८७ || वेदनाद्वारमाह
अब्भोवगमा ओवक्कामा य तेसि वियणा भवे दुविहा । धुवलोआई पढमा, जराविवागाइ aिsat || १३८८ || आभ्युपगमिकी औपक्रमिकी च 'तेषां जिनकल्पिकानां द्विविधा वेदना भवति । तत्र प्रथमा 'ध्रुवलोचादि' ध्रुवः प्रतिदिनभावी लोचः, आदिशब्दादातापनातपःप्रभृतिपरिग्रहः । ‘द्वितीया तु' औपक्रमिकी 'जरा - विपाकादिः' जरा प्रतीता विपाकः कर्मणामुदयस्तत्समुत्था ५ । अथ कियन्तो जनाः ? इति द्वारम् - 'एक्को' त्ति एक एवायं भगवान् भवति ६ । यदि वा इदं द्वारमुपरिष्टाद् व्याख्यास्यते || १३८८ || अथ स्थण्डिलद्वारमाह
२३
उच्चारे पासवणे, उस्सग्गं कुणइ थंडिले पढमे । तत्थेव य परिजुण्णे, कयकिच्चो उज्झई वत्थे ||१३८९ ।। उच्चारस्य प्रश्रवणस्य च ' उत्सर्गं' परित्यागं 'प्रथमे' अनापाते असंलोके स्थण्डिले करोति। ‘तत्रैव' प्रथमस्थण्डिले 'कृतकार्यः' विहितशीतत्राणादिवस्त्रकार्य उज्झति वस्त्राणि ॥ १३८९।। अयं च संज्ञां व्युत्सृज्य न निर्लेपयति, कुतः ? इति चेद् उच्यते
अप्पमभिन्नं वच्चं, अप्पं लूहं च भोयणं भणियं । दीहे वि उ उवसग्गे, उभयमवि अथंडिले न करे ||१३९० ।। अल्पमभिन्नं च वर्चः पुरीषमस्य भवति, कुतः ? इत्याह- यतोऽल्पं रूक्षं च भोजनमस्य भणितं भगवद्भिः । अल्पा - ऽभिन्नवर्चस्कतया तथाकल्पत्वाच्चासौ न निर्लेपयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org