________________
प्रथमं परिशिष्टम्- टिप्पनानि । तु मात्रको द्वितीयो भवति, इदं तावदेकद्व्यादिकं गणणाप्रमाणम्, इत ऊर्ध्वं प्रमाणप्रमाणं वक्ष्ये ॥१०३१॥" - ओघनिष्टीका ।।
[पृ०२६४] “धनदो धनार्थिनां प्रोक्तः कामिनां सर्वकामदः । धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥२॥ धनं धान्य-क्षेत्र-वास्तु-द्विपद-चतुष्पदभेदभिन्नं हिरण्य-सुवर्ण-मणि-मौक्तिक-शङ्खशिला-प्रवालादिभेदं च धनपतिधनर्द्धिप्रतिस्पर्धि तीर्थोपयोगफलं ददाति प्रयच्छति यः स तथा, धनार्थिनां धनमन्तरेण गृहिणो न किञ्चिदिति बुद्ध्या धनविषयातिरेकस्पृहावतां प्रोक्तः शास्त्रेषु निरूपितः, धर्म एवेत्युत्तरेण योगः, तथा कामिनां कामाभिलाषवतां प्राणिनाम्, काम्यन्ते इति कामा: मनोहरा अक्लिष्टप्रकृतयः परमाह्लाददायिनः परिणामसुन्दराः शब्द-रूप-रस-गन्ध-स्पर्शलक्षणा इन्द्रियार्थाः, ततः सर्वे च ते कामाश्च सर्वकामाः, तान् ददातीति सर्वकामदः । इत्थमभ्युदयफलतया धर्ममभिधाय निःश्रेयसफलत्वेनाह- धर्म एव नापरं किञ्चित्, अपवृज्यन्ते उच्छिद्यन्ते जाति-जरामरणादयो दोषा अस्मिन्नित्यपवर्गः मोक्षः, तस्य, पारम्पर्येण अविरतसम्यग्दृष्टिगुणस्थानाधारोहणलक्षणेन सुदेवत्व-मनुष्यत्वादिस्वरूपेण वा साधकः सूत्रपिण्ड इव पटस्य स्वयं परिणामिकारणभावमुपगम्य निर्वर्त्तक इति ।।२।।' - धर्मबिन्दु टीका ॥
[पृ०२६५] “संयममधिकृत्याह । सम्यगुपरमः पापस्थानेभ्यः संयमः सप्तदशप्रकार:पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहश्च कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥१७२॥ टीका- पञ्चाश्रवाः प्राणातिपात-मृषाभाषणा-दत्तादान-मैथुन-परिग्रहाः कर्मादानहेतवस्तेभ्यो विरमणं विरतिकरणं संयमः । पञ्चेन्द्रियाणि स्पर्शनादीनि तेषां निग्रहः नियमनं निरोधः । शब्दादिषु गोचरप्राप्तेष्वरक्तद्विष्टतामाध्यस्थ्यम् । कषः संसार: कष्यते यत्र जीवः स्वकृतैः कर्मभिः कदर्थ्यते पीड्यते तस्यायाः प्राप्तिहेतवः क्रोधादयश्चत्वारस्तेषां जयोऽभिभव उदयनिरोधः, उदितानां वा विफलतापादनम् । दण्डा मनोवाक्कायाख्याः । अभिद्रोहाभिमानेादिलक्षणो मनोदण्डः । हिंम्रपरुषानृतादिलक्षणो वाग्दण्डः । धावन-वल्गन-प्लवनादिरूपः कायदण्डः । एभ्यो विरतिर्निवृत्तिः। एवमेष संयमः सप्तदशभेदो भवति । आर्षे त्वन्येन क्रमेणायमेवार्थो निबद्धः । पृथिव्यप्तेजो-वायु-वनस्पति-द्वि-त्रि-चतुः-पञ्चेन्द्रियेषु संयमः। तथा पुस्तकाद्यपरिग्रहः अजीवकायसंयमः । प्रेक्षोपेक्षाप्रमार्जनापरिष्ठापनसंयमः मनोवाक्कायसंयम इति ॥१७२॥" - प्रशमरतिप्रकरणटीका ।।
[पृ०२८१ पं०८] “केइ पुण मंदभग्गा नियमइउप्पेखिए बहू दोसे । उन्भाति जईणं जय-देवड-दुद्ददिटुंता ॥१८॥ व्या० केचन मन्दभाग्या: प्रणष्टपुण्याः, निजमत्युत्प्रेक्षितान् स्वकीयबुद्धिविकल्पितान्, बहून् प्रचुरान्, दोषान् भ्रष्टब्रह्मचर्यादीन्, उद्भावयन्ति प्रकाशयन्ति, यतीनां साधूनाम् । अत्रार्थे जय-देवड-दुद्दका वक्ष्यमाणा दृष्टान्ता इति । भावार्थः कथानकेभ्योऽवसेयः। तत्रादौ जयकथानकमुच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org