SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि । १७ ॥१२२॥ अथार्यरक्षितः प्रीतस्तस्यामृतकिरा गिरा । स्वयं तमनुजग्राह दीक्षया शिक्षयापि च ॥१२३।। यातुमुक्तोऽन्यदा फल्गुरक्षितेनार्यरक्षितः। अधीताशेषयमको गन्तुमूचे पुनर्गुरुम् ॥१२४।। प्राग्वन्निवारितस्तेन स खेदादित्यचिन्तयत्। स्वजनाह्वानगुर्वाज्ञासङ्कटे पतितोऽस्मि हा ॥१२५॥ अधीयानः पुनः प्राग्वद्यमकेभ्यः पराजितः । कृताञ्जलिपुटो भूत्वा गुरून्नत्वा च सोऽब्रवीत् ॥१२६।। दशमस्यास्य पूर्वस्य मयाधीतं कियत्प्रभो !। अवशिष्टं कियच्चेति सप्रसादं समादिश ॥१२७।। जगाद गुरुरप्येवं स्मितविच्छुरिताधरः । बिन्दुमात्रं त्वयाधीतमब्धितुल्यं तु शिष्यते ॥१२८॥ इति श्रुत्वा गुरोर्वाचमूचिवानार्यरक्षितः । परिश्रान्तोऽहमध्येतुं प्रभु तः परं प्रभो ! ।।१२९।। शेषमप्यचिरेणापि त्वमागमयसि श्रुतम् । धीमन्नधीष्व धीरोऽसि किमकाण्डे विषीदसि ।।१३०।। एवमाश्वासितस्तेन गुरुणा करुणावता । पुनः प्रवृत्तः सोऽध्येतुं भग्नोत्साहोऽपि भक्तिभाक् ॥१३१॥ युग्मम् ॥ फल्गुरक्षितमन्येधुर्मूर्तिमबन्धुवाचिकम् । दर्शयन्नुत्सुको गन्तुं श्रीवजं स पुनर्जगौ ॥१३२॥ अयमुत्साह्यमानोऽपि हन्त गन्तुमनाः कथम् । एवं विचिन्तयन्वज्रस्वाम्यभूदुपयोगवान् ॥१३३॥ सोऽथामस्तेत्यतो यातो नायमायास्यति ध्रुवम् । स्तोकं ममायुर्मय्येव पूर्वं च दशमं स्थितम् ॥१३४।। अनुज्ञातस्ततस्तेन गमनायार्यरक्षितः । स फल्गुरक्षितः शीघ्रं पुरं दशपुरं ययौ ॥१३५॥ तत्रायातं च तं ज्ञात्वा सपौरः पृथिवीपतिः । सरुद्रसोमः सोमश्च भक्त्या वन्दितुमाययौ ॥१३६।। प्रमोदाश्रुपयः पूर्णलोचनास्ते च तं मुनिम् । मूर्तं धर्ममिवानम्य यथास्थानमुपाविशन् ॥१३७॥ विदित्वा धर्मशुश्रूषां तेषां कारुण्यवारिधिः । देशनां विदधे सोऽपि मेघगम्भीरया गिरा ॥१३८॥ श्रोत्रपत्रपुटीपीतदेशनात्यच्छवारिभिः । तत्कालं क्षालयन्ति स्म विस्मितास्ते मनोमलम् ॥१३९।। अथार्यरक्षितस्यान्ते नृपः सम्यक्त्वमग्रहीत् । ततः सपौरस्तं नत्वा ययौ निजनिकेतनम् ॥१४०॥ ससोमा रुद्रसोमापि बन्धुभिर्बहुभिः समम् । संसारचारकावासविरक्ता व्रतमाददे ॥१४१॥" इति परिशिष्टपर्वणि त्रयोदशे सर्गे ॥ [पृ०२४५] “देवावि देवलोए,.....॥२८५॥ व्या० देवा अपि देवलोके दिव्यैराभरणैरनुरंजितं मंडितं शरीरं येषां ते तथा, तेऽपि यत्प्रतिपतंति अशुचौ गर्भादिकलमले निमजंति, ततो देवलोकात्तद् दुःखं दारुणं रौद्रं तेषां देवनामामिति, प्रागपरिमितसुखवर्णनं तेषामनेन विरुद्धयते इति चेन्न, अभिप्रायापरिज्ञानात्, तद्धयेतदर्थं वणितं, किल वैपयिकसुखार्थिनापि सत्त्वेन धर्म एव यत्नः कार्य तस्मिन् सति तस्य प्रासंगिकत्वात्, न पुनस्तस्य परमार्थतः सुखं विपर्यासात्, दुःखेऽपि सुखवुद्धिप्रवृत्तेः, विपाकदारुणत्वाच्च ॥२८५।। तथा चाह- तं सुरविमाणविभवं, चिंतिय..... ॥२८६॥ व्या० तमिति प्राग्वर्णितं सुरविमानविभवं चिंतयित्वा पर्यालोच्य च्यवनं च पतनं च देवलोकात्, किं ? अतिबलिनमेव गाढं निष्ठुरमेव यन्नापि नैव स्फुटितं शतशर्करं शतखंडं हृदयं. अस्त्येव तस्यास्फोटे महत्कारणमिति ॥२८६॥" - इति उपदेशमालाटिकायाम् ॥ [पृ०२५२] “एगं पायं जिनकप्पियाणं थेराण मत्तओ बिइओ । एयं गणणपमाणं पमाणमाणं अओ वुच्छं ॥१०३१॥ एकमेव पात्रकं जिनकल्पिकानां भवति, स्थविरकल्पिकानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy