________________
प्रथमं परिशिष्टम् - टिप्पनानि ।
मम निर्यामको भव ॥९०॥ तथेति प्रतिपेदानं रुद्रसोमात्मजं मुनिम् । विहितानशनो भद्रगुप्ताचार्योऽन्वशादिति ।।९१।। मा वज्रस्वामिना सार्धं वसेरेकप्रतिश्रये । किं तु वत्स त्वमन्यस्मिन्नधीयीथाः कृतस्थितिः ॥९२॥ यो हि सोपक्रमाको वज्रेण सह यामिनीम् । एकामपि वसेत्सोऽनुम्रियते तं न संशयः ॥९३॥ एवं करिष्येऽहमिति प्रतिपद्यार्यरक्षितः । तेषां निर्यामणां कृत्वा पुरीं वज्राश्रितां ययौ ॥ ९४|| नगर्या बहिरेवास्थात्तां निशामार्यरक्षितः । निशाशेषे स्वप्नममुं वज्रस्वामी ददर्श च ॥ ९५ ॥ यदद्य पयसा पूर्णः केनाप्यस्मत्पतद्गृहः । अपाय्यागन्तुना भूरि किंचिदस्थाच्च तत्पयः || ९६॥ वज्रस्वामी महर्षीणां स्वप्नार्थं व्याकरोत्प्रगे । बहुपूर्वश्रुतग्राही कोऽप्येष्यति ममातिथिः ||१७|| स उपादास्यतेऽस्मत्तो बहुपूर्वश्रुतं सुधीः । पूर्वश्रुतावशेषं तु मत्पार्श्वेऽपि रहिष्यति ॥ ९८ ॥ उपवज्रमुनि प्रातराययावार्यरक्षितः । ववन्दे द्वादशावर्तवन्दनेन च तं गुरुम् ॥ ९९ ॥ तं च पप्रच्छ वज्रर्षिः कुत आगाः स चावदत् । तोसलिपुत्राचार्याणां पादमूलादिहागमम् ॥ १०० ॥ वज्रस्वाम्यब्रवीदार्यरक्षितस्त्वं किमाख्यया । सोऽप्याख्यादेवमिति च पुनर्वन्दनपूर्वकम् ॥ १०१ ॥ वज्रस्वाम्यपि तं ज्ञात्वा सप्रसादमदोऽवदत् । स्वागतं तव कुत्र त्वं प्रतिश्रयमशिश्रियः || १०२ || बहिरावासितोऽस्मीति तेनोक्ते स्वाम्यदोऽवदत् । महात्मन्किं न जानासि बहिः स्थोऽध्येष्यसे कथम् ||१०३ || सोमभूरभिधत्ते स्म स्वामिन् भिन्ने प्रतिश्रये । उदतारिषमाचार्यभद्रगुप्तानुशासनात् ॥ १०४॥ उपयोगेन वज्रर्षिर्विदित्वैवमुवाच च । युक्तमेतद्धि पूज्यास्ते स्थविरा नाहुरन्यथा ॥ १०५ ॥ वज्रोऽथ पृथगावासस्थितमप्यार्यरक्षितम् । अध्यापयितुमारेभे पूर्वाणि प्रतिवासरम् ||१०६|| अचिरेणापि कालेन सोमदेवभवो मुनिः । पूर्वाण्यपूर्वप्रतिभो नवाधीयाय लीलया ॥१०७॥ दशमं पूर्वमध्येतुं प्रवृत्तं चार्यरक्षितम् । दशमपूर्वयमकान्यधीष्वेत्यादिशद् गुरुः ॥ १०८॥ ततो दशमपूर्वस्य बहूनि विषमाणि च । अध्येतुं यमकान्यार्यरक्षितर्षिः प्रचक्रमे || १०९ || इतश्च सन्दिदिशतुः पितरावार्यरक्षितम् । नागच्छसि किमद्यापि विस्मृतास्तव किं वयम् ॥ ११० ॥ त्वं नः करिष्यस्युद्योतमिति ह्याशामकृष्महि । तवानागमने सर्वं पश्यामस्तु तमोमयम् ॥ १११ ॥ एवमाहूयमानोऽपि सन्देशवचनैस्तयोः। यावदध्ययनासक्तो ववले नार्यरक्षितः ॥ ११२ ॥ । तावत्ताभ्यां तमाह्वातुमनोभ्यां फल्गुरक्षितः । प्राणप्रियोऽनुजस्तस्य प्रैषि निर्बन्धशिक्षया ॥ ११३ ॥ युग्मम् | द्रुतं गत्वा च नत्वा च सोऽवादीदार्यरक्षितम्। किमेवं कठिनोऽभूस्त्वमनुत्कण्ठः कुटुम्बके ॥११४॥ वैराग्यपर्शुना छिन्नं यद्यपि प्रेमबन्धनम् । तथापि तव कारुण्यमस्ति स्वस्तिनिबन्धनम् ||११५ || शोकपङ्कनिमग्नोऽस्ति बन्धुवर्गश्च साम्प्रतम् । तदागत्य तमुद्धर्तुं भगवंस्तव साम्प्रतम् ॥ ११६ ॥ इति तेनानुजेनोक्तो गन्तुं तत्रार्यरक्षितः । श्रीवज्रस्वामिनं नत्वा पप्रच्छ स्वच्छमानसः ।। ११७ || अधीष्वेति ततस्तेन प्रत्युक्तः स पुनः पठन् । किं तेऽस्मि विस्मृतः फल्गुरक्षितेनेत्यजल्प्यत ॥११८ || बान्धवाश्च परिव्रज्यामनोरथरथस्थिताः । न कुत्रापि प्रवर्तन्ते त्वया सारथिना विना ॥११९॥ तदेहि देहि प्रव्रज्यां जगत्पूज्यां स्वगोत्रिणाम् । श्रेयस्यपि सकर्णोऽपि किमद्यापि प्रमाद्यसि ॥१२०॥ अथार्यरक्षितः स्माह यदि सत्यमिदं वचः । ततस्त्वं तावदादत्स्व वत्स सत्त्वहितं व्रतम् ॥१२१॥ एवमुक्तस्ततस्तेन श्रद्धानिर्धीतमानसः । सोऽवदद्देहि को हि स्यात्पीयूषस्य पराङ्मुखः
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org