________________
प्रथमं परिशिष्टम् - टिप्पनानि ।
सह ||५७|| इत्यार्यरक्षितस्तस्थौ द्वारेऽपि द्वारपालवत् । विदुषां रभसारम्भे विवेको लाते ॥ ५८ ॥ मालवकैशिकीमुख्यग्रामरागपरिस्पृशा । स्वाध्यायेनापि साधूनां स ययौ लयमेणवत् ||५९।। तत्रागाड्ढड्ढरो नाम श्रमणोपासकः प्रगे । वन्दनाय महर्षीणां हर्षेणोत्फुल्ललोचनः ||६०|| स त्रिर्नैषेधिकीं कुर्वन्प्रविवेश प्रतिश्रयम् । अथैर्यापथिकीं प्रत्यक्रामदुच्चैस्तरस्वरम् ॥ ६१ ॥ तदनन्तरमाचार्यान्साधूनपि यथाविधि । वन्दित्वा निषसादाग्रे विष्टरं प्रतिलिख्य सः ॥६२॥ अथार्यरक्षितो धीमांस्तेन सार्धं प्रविश्य सः । वन्दनैर्यापथिक्यादि तस्माच्छ्रुतमधारयत् ॥ ६३ ॥ तद्दर्शितविधिं चाभिनयन्पठनपूर्वकम् । अवन्दताचार्यपादान्साधूनप्यार्यरक्षितः ||६४|| ढड्ढरश्रावकं त्वार्यरक्षितो न ह्यवन्दत । सुधीरपि निम्न कियद्विज्ञातुमीश्वरः ।।६५।। निषण्णं सोमतनयं तमवन्दितढड्डरम् । आचार्या विविदुः कोऽपि श्राद्धोऽयं नूतनः खलु ||६६|| धर्मलाभाशिषं दत्त्वा शरदम्भोडमलाशयाः । पृच्छन्ति स्म तमाचार्याः कुतो धर्मागमस्तव ||६७|| औरसो रुद्रसोमाया स जगाद यथातथम् । श्रमणोपासकादस्मादात्तधर्मोऽस्मि नान्यतः ||६८|| ऊचिरे साधवोऽप्येवं भगवन्नार्यरक्षितः । तनयो रुद्रसोमाया विद्वान्वेदाब्धिपारगः ||६९॥ चतुर्दशविद्यास्थानोपाध्यायः पृथिवीभुजा । करिस्कन्धाधिरूढोऽयं पत्तनेऽस्मिन्प्रवेशितः ॥७०॥ अयमाद्यगुणस्थानस्थितानां धुरि गण्यते । आश्चर्यं श्रावकाचारं परिस्पृशति किं ह्यदः ॥७१॥ अथार्यरक्षितः माह श्रावकोऽस्मि हि सम्प्रति । किं नवो न भवेद्भावपरिणामः शरीरिणाम् ॥ ७२ ॥ इति विज्ञपयामास चाचार्यान्रचिताञ्जलिः । दृष्टिवादाध्यापनेन भगवंस्त्वं प्रसीद मे || ७३ || मया विवेकहीनेनोन्मत्तेनेव दुरात्मना । हिंसोपदेशकं सर्वमधीतं नरकावहम् ||७४ || आचार्या अपि तं शान्तं योग्यं ज्ञात्वैवमूचिरे । यदि त्वं दृष्टिवादाधिजिगांसुस्तत्परिव्रज ॥ ७५ ॥ किं चान्यदप्युपात्तायां प्रव्रज्यायां द्विजोत्तम ! | दृष्टिवादं क्रमेण त्वं विद्वन्नध्यापयिष्यसे ॥ ७६ ॥ सोऽप्युवाच परिव्रज्यामिदानीमपि दत्त मे । मया न दुष्करा ह्येषा मन्मनोरथकामधुक् ॥ ७७॥ किं तु प्रसादं कुर्वाणैर्भगवद्भिर्निजे शिशौ । विहारक्रमजं कष्टमादृत्यान्यत्र गम्यताम् ||७८|| मामत्र स्थितवन्तं हि राजा पुरजनोऽपि च । अत्यन्तमनुरागेण प्रव्रज्यां त्याजयेदपि ॥७९॥ आचार्या अपि तस्योपरोधेन सपरिच्छदाः । ययुरन्यत्र सोऽप्यग्रे स्थितो याति स्म भृत्यवत् ॥८०॥ तीर्थे श्रीवर्धमानस्य तदानीमनगारिणाम् । शिष्यचौर्यव्यवहारः प्रथमोऽयमवर्तत ॥ ८१ ॥ तदार्यरक्षितं भट्टमाचार्या पर्यविव्रजन् । साक्षीकृतगुरुश्चाभूद्गीतार्थः सोऽचिरादपि ॥ ८२ ॥ तप्यमानस्तपस्तीव्रं सहमानः परीषहान् । मातृकावदधीयाय सोऽङ्गान्येकादशापि हि ||८३|| तेषामाचार्यमिश्राणां दृष्टिवादः परिस्फुटः। यावान्बभूव तावन्तमग्रहीदार्यरक्षितः ॥ ८४॥ तदा वृद्धजनोक्त्यैवमश्रौषीदार्यरक्षितः । यद्भूयान्दृष्टिवादोऽस्ति वज्रर्षेः साम्प्रतं स्फुटम् ||८५ || अभूच्च समवसृतः पुर्यां वज्रमुनिस्तदा । इति प्रतस्थे तत्रैव गन्तुं सोमात्मजो मुनिः ||८६ ॥ ययौ चोज्जयिनीमध्ये भगवानार्यरक्षितः । भद्रगुप्ताभिधानानामाचार्याणां प्रतिश्रयम् ||८७|| गुणवन्तं तपोराशिं पूर्वावस्थाकुतीर्थिकम् । उपलक्ष्य तमाचार्याः परिषस्वजिरे मुदा ॥८८॥ ऊचुश्च वत्स धन्योऽसि कृतार्थोऽसि सुधीरसि । विहाय यो हि ब्राह्मण्यं श्रामण्यं प्रत्यपद्यथाः ॥ ८९ ॥ अद्याहं क्षीणाशेषायुः कर्मा त्वामर्थयेऽनघ ! | कर्तुकामोऽस्म्यनशनं
Jain Education International
For Private & Personal Use Only
१५
www.jainelibrary.org