________________
प्रथमं परिशिष्टम्- टिप्पनानि ।
पुत्रप्रेमसंरम्भोचितसंलापलक्षणम् । प्रसादं पूर्ववन्मातुरपश्यन्निदमब्रवीत् ॥२५॥ अधीताशेषविद्योऽहं त्वत्पादान्द्रष्टुमागमम् । किं नालपसि मां भक्तिमर्यादामकराकरम् ।।२६।। मम पूजां करोत्येष राजा राजगुरोरिव । महिमानमिमं सूनोदृष्ट्वा किं न हि हृष्यसि ?॥२७॥ रुद्रसोमावदद्भद्र ! किं विद्योपार्जनेन ते । हिंसोपदेशकं ह्येतदधीतं नरकप्रदम् ॥२८॥ दृष्ट्वा नरकपाताभिमुखं त्वां कुक्षिसम्भवम् । कथं हृष्यामि मग्नास्मि खेदे गौरिव कर्दमे ॥२९॥ यदि त्वं मयि भक्तोऽसि यदि मां मन्यसे हिताम् । दृष्टिवादं तदधीष्व हेतुं स्वर्गापवर्गयोः ॥३०॥ इत्यार्यरक्षितो दध्यौ किमधीतमिदं मया । न यन्मातुः प्रमोदाय तज्जया सम्पदापि किम् ॥३१॥ विमृश्यैवमुवाचाम्बामार्यधीरार्यरक्षितः । दृष्टिवाद् पठिष्यामि मातराख्याहि तद्गुरुम् ॥३२॥ रुद्रसोमावदद्वत्स ! श्रमणोपासको भव । दृष्टिवादस्य गुरवः श्रमणा एव नापरे ॥३३॥ दृष्टिवादो हि दर्शनविचार इति शोभनम् । नामाप्यस्येति मनसि श्रद्दधावार्यरक्षितः ॥३४॥ ऊचे च मातुरादेशः प्रमाणं गुरवस्तु ते । क्व द्रष्टव्या दृष्टिवादं यथाधीये तदन्तिके ||३५|| रुद्रसोमापि तनयविनयोच्छ्वसिता सती । भ्रमयन्त्यञ्चलं तस्य निजगाद प्रसादभाक् ॥३६।। इदानीं हि न जिहेमि त्वयाहं तनुजन्मना । मदादेशमनुष्ठातुं यदकार्षीमनोरथम् ॥३७।। सन्ति तोसलिपुत्राख्या आचार्या आर्यरक्षित ! । इतो ममैवेक्षुवाटे प्रतिपन्नप्रतिश्रयाः ॥३८॥ तत्पादपङ्कजोपास्तिहंसतामुररीकुरु । ते त्वामध्यापयिष्यन्ति दृष्टिवादं तनूद्भव ॥३९।। एवं प्रातः करिष्यामीत्यभिधायार्यरक्षितः । दृष्टिवादाभिधां ध्यायन्नाशेत रजनावपि ॥४०॥ प्रातश्चचाल पृष्ट्वाम्बामार्यरक्षितकुम्भभूः । दृष्टिवादोदधिं प्राज्ञः पातुं गण्डूषलीलया ॥४१॥ पितृमित्रमितश्चार्यरक्षितस्य महाद्विजः । अभूदुपपुरं ग्रामे पितेवात्यन्तवत्सलः ॥४२॥ सोऽचिन्तयन्मया हि ह्यो दृष्ट न ह्यार्यरक्षितः । आयुष्मन्तं तदद्यापि तं पश्यामि सुहृत्सुतम् ॥४३॥ इति द्विजाग्रणीरिक्षुयष्टी: स सकला नव । तत्खण्डं चैकमादायार्यरक्षितगृहं ययौ ॥४४।। सोमदेवसुतं ज्येष्ठं निर्यान्तं च निकेतनात् । ददशॆष विभातत्वात्तमुपालक्षयन्न च ॥४५॥ को नाम त्वमसीत्युच्चैः सोऽपृच्छदार्यरक्षितम् । आर्यरक्षित एषोऽस्मीत्यब्रवीच्चार्यरक्षितः ॥४६॥ द्विजो जगाद हे भ्रातुः पुत्र ! ह्यस्तनवासरे । कुटुम्बकृत्यकरणप्रमादान्नासि वीक्षितः ॥४७।। एकेनापि गतेनाला मन्ये गतमहः शतम् । यत्र त्वां नाहमद्राक्षं हत्कैरवनिशाकरम् ॥४८॥ इत्यार्यरक्षितं प्रेम्णा द्विजन्मा परिरभ्य सः । अवोचदिक्षवो ह्येते मयानीयन्त त्वत्कृते ॥४९।। उवाच सोमभूरिझूस्तात ! मन्मातुरर्पयेः। अहं शरीरचिन्तार्थं गच्छन्नस्मि बहिर्भुवि ॥५०॥ इदं च मातुराख्याया यद्गच्छन्नार्यरक्षितः । अधुनेक्षुलतापाणिमद्राक्षीदादितोऽपि माम् ॥५१॥ इत्यार्यरक्षितेनोक्तः स द्विजन्मा तथाकरोत् । आर्यरक्षितमातापि सा दक्षैवमचिन्तयत् ॥५२॥ मम सूनोरिदं श्रेयोऽभूच्छकुनमतश्च सः । नव पूर्वाणि खण्डं च नूनमादास्यते सुधीः ॥५३।। नवाहं दृष्टिवादस्य पूर्वाण्यध्ययनानि वा । दशमं खण्डमध्येष्ये दध्यौ यानिति सोमभूः ॥५४॥ गत्वा चेक्षुगृहद्वारे स्थिरधीरार्यरक्षितः । अचिन्तयदविज्ञातः कथमन्तर्विशाम्यहम् ॥५५॥ राज्ञामिव गुरूणां हि सन्निधाने यतस्ततः । विदितोऽपि नोपसर्पदहं तु विदितोऽपि न ॥५६॥ तदत्रैव क्षणं स्थित्वा वसत्यन्तर्विशाम्यहम् । प्रातर्वन्दनकायातश्रमणोपासकैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org