________________
प्रथमं परिशिष्टम्- टिप्पनानि । त्यक्त्वा ययौ निजक्षेत्रे सीरादि पुनराददे ॥१५।। स्वामिनं गौतमो नत्वा पप्रच्छ भगवन्निदम् । आश्चर्यमेष विद्वेषी लोकानन्देऽपि यस्त्वयि ॥१६|| प्रतिपन्नं स्वयमपि व्रतं प्रोज्झितवानसौ । युष्मदालोकनादेव कारणं तत्र नाथ ! किम् ? ॥१७॥ मय्यसौ प्रीतिमान् पूर्वं गुरुर्मेऽसावितीरिते । त्वयि नाथ ! झगित्येव द्वेष्यजायत मय्यपि ॥१८॥ स्वाम्यथाऽऽख्यन्मया सिंहो यस्त्रिपृष्ठेन दारितः । क्रोधात् स्फुरंस्त्वया साम्ना शान्तः सारथिना मम ॥१९॥ तत्प्रभृत्येष मद्वेषी जज्ञे स्निग्धः पुनस्त्वयि । तत्प्रेषयं गौतम ! त्वां बोधिबीजकृतेऽस्य हि ॥२०॥ एवमाख्याय भगवान् प्रययौ पोतनं पुरम् । मनोरमाभिधोद्याने तद्बहि: समवासरत् ॥२१॥” इति त्रिषष्टिशलाकापुरुषचरिते नवमे सर्गे।।
[पृ०२१८ पं०९] “इतश्चौद्रायणनृपो जज्ञे दशपुरे पुरे । सोमदेवोऽभवद्विप्रो रुद्रसोमा तु तत्प्रिया ॥१॥ ब्राह्मणी रुद्रसोमा सा बभूव परमाहती । दयादिभिर्गुणैर्धर्मद्रुमबीजैरलङ्कृता ॥२॥ तयोरजनिषातां द्वौ तनयौ नयशालिनौ । नाम्नार्यरक्षितो ज्यायान्कनीयान्फल्गुरक्षितः ॥३॥ तत्रार्यरक्षितो मौञ्जीबन्धनादप्यनन्तरम् । अधीयाय पितुरेव सकाशे यद्विवेद सः ॥४॥ ततोऽनुज्ञाप्य पितरावध्येतुमधिकाधिकम् । पाटलीपुत्रनगरे प्रययावार्यरक्षितः ॥५॥ सोऽङ्गानि वेदांश्चतुरो मीमांसान्यायविस्तरम् । पुराणं धर्मशास्त्रं च तत्राध्यैष्ट विशिष्टधीः ॥६॥ चतुर्दशापि हि विद्यास्थानानि निजनामवत् । कृत्वा कण्ठगतान्यागात्पुरं दशपुरं पुनः ॥७॥ चतुर्वेदोऽयमायातः पूज्य इत्यवनीभुजा। अधिरोह्य करिस्कन्धे स प्रावेश्यत पत्तने ।।८॥ विविधोपायनकरा लोका अपि तमभ्यगुः । राजभिः पूज्यते यो हि पूजनीयो न कस्य सः ॥९।। गृहस्य बाह्यशालायामध्युवासाऽऽर्यरक्षितः । कुटुम्बे दददानन्दमुपदामिव नूतनम् ॥१०॥ तं ब्रह्मचर्यसधनं पूज्यमानं महीभुजा । दृष्ट्वा तद्बन्धवो गोत्रं पवित्रं मेनिरे निजम् ॥११|| स्वजनैस्तद्गृहद्वारे रम्यमाबन्धि तोरणम् । चिरेष्टायाः समेष्यन्त्या लीलादोलोपमं श्रियः ॥१२॥ तद्गृहे तत्सुवासिन्यः स्वस्तिकान्स्वस्तिकारकान् । लिलिखुस्तद् गुणाख्यान प्रशस्त्यक्षरसन्निभान् ॥१३।। बाह्यावासस्थितोऽप्यार्यरक्षितोऽल्पैर्दिनैरपि । श्रीमान्बभूव भूयोभिरागच्छद्भिपायनैः ॥१४॥ अन्यदा चिन्तयामास शुद्धधीरार्यरक्षितः । अहो प्रमादो नाद्यापि जननीमभिवादये ।।१५।। भवन्ति पुत्ररूपेण बाह्याः प्राणा हि योषिताम् । तस्य प्रवासजं दुःखं तासामति हि दुःसहम् ।।१६।। मत्प्रवासेन मन्माता भविष्यति कथं हि सा । निद्रायामपि या नित्यं मन्नामाक्षरवाग्मिनी ॥१७॥ इदमेव हि धीरत्वमहो मन्मातुरद्भुतम् । अपि देशान्तरे प्रेषीद्या मां मद्धितकाम्यया ||१८|| तद्गुणोपार्जनामूलां सम्पदं दर्शयन्निजाम् । आनन्दयामि स्वामम्बामुत्कण्ठाम्भस्तरङ्गिणीम् ॥१९॥ इत्यार्यरक्षितः सद्यो दिव्ये संवीय वाससी । कश्मीरजाङ्गरागेण संवर्मितवपुर्युतिः ॥२०॥ सुगन्धिसुमनोदामगर्भिताबद्धकुन्तलः । ग्रीवापाण्यं ह्रिविन्यस्तकार्तस्वरविभूषणः ।।२१।। कर्पूरफालकिामिश्रताम्बूललटभाननः । विशदच्छत्रसश्रीकमौलिः स्वसदनं ययौ ॥२२॥ त्रिभिर्विशेषकम् ।। स आदावेव विनयी मातुः पादानवन्दत । कण्ठावलम्बिसौवर्णशृङ्खलाश्लिष्टभूतलः ॥२३॥ दीर्घायुरक्षयो भूयाः स्वागतं तव दारक ! । इत्युक्त्वा साऽवदत्प्रातिवेश्मिकीवापरं न हि ॥२४॥ स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org