________________
१२
प्रथमं परिशिष्टम् - टिप्पनानि ।
पागारं सोवण्णं करेहि, कओ, पुणोवि भणिओ - जइ समुदं आणेसि तत्थ हाओ सुद्धो होहिसि तो ते दाहामो, आणीओ, वेलाए ण्हाविओ, विवाहो कओ सिबियाए हिंडतेण, ताओवि से अण्णाओ आणियाओ, एवं भोगे भुंजति बारस वरिसाणि, पच्छा बोहितो, महिलाहि वि बारस वरिसाणि मग्गियाणि, दिण्णाणि य, चउव्वीसाए वासेहिं सव्वाणिवि पव्वइयाणि, णवपुव्वी जाओ, एकल्लविहारपडिमं पडिवण्णो, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमागओ, सो य सेणियस्स सोवणियाणं जवाणमट्ठसतं करेइ, चेइयच्चणियाए परिवाडिए सेणिओ करेइ तिसंझं, तस्स हिं साहू अइगओ, तस्स एगाए वायाए भिक्खा ण णीणिया, सो य अइगओ, ते य जवा कोंचएण खाइया, सो आगओ ण पेच्छइ, रण्णो य चेतियच्चणियवेला ढुक्कइ, अज्ज अट्ठिखंडाणि कीरामि त्ति, साधुं संकइ, पुच्छइ, तुण्डिक्को अच्छइ, ताहे सीसावेढेण बंधति, भणिओ य- साह जेण गहिया, तहा आवेढिओ जहा अच्छीणि भूमीए पडियाणि, कोंचओ य दारुं फोडेंतेण सलिंकाए आओ गलए, तेण वंता, लोगो भणइ- पाव ! एए ते जवा, सोवि भगवं कालगओ सिद्धो य, लोगो आगओ, दिट्ठो मेत्तज्जो, रण्णो कहियं, वज्झाणि आणत्ताणि, दारं ठइत्ता पव्वइयाणि भांति - सावग ! धम्मेण वड्ढाहि, मुक्काणि, भणइ - जइ उप्पव्वयह तो भे कविल्लीए कड्डेमि । जो कोंचगावराहे पाणिदया कोंचगं तु णाइक्खे । जीवियमणपेतं मेयज्जरिसिं णमंसामि ॥८६९॥” आवश्यक० हारि० ॥
[पृ०२१८ पं०१०] बुयावइत्ता संभाष्य गौतमेन .....
“इतश्च यः सुदंष्ट्राहिकुमारो नौजुषः प्रभोः । उपसर्गानकृत स क्वचिद् ग्रामेऽभवद्धली ॥१॥ स कृष्याजीवकोऽन्येद्युः सीरेण क्रष्टुमुर्वराम् । यावत्प्रवृत्तस्तावत्तं श्रीवीरो ग्राममाययौ ||२|| स्वामिना तस्य बोधाय प्रेषितो गौतमोऽवदत् । किमिदं क्रियते ? दैवनियुक्तमिति सोऽब्रवीत् ||३|| भूयोऽपि गौतमोऽवोचत् क्षुद्रजीविकयाऽनया । जीवतस्तव किं सौख्यं किं वा सुचरितं भवेत् ! ॥४॥ न केवलमिहैवेदं कष्टकृद्भद्र ! कर्म ते । प्राणातिपातभूयिष्ठं कष्टायान्यभवेष्वपि ॥ ५ ॥ कर्मणोऽमुष्य कष्टस्य कष्टं लक्षांशतोऽपि हि । क्रियते धर्मकार्ये चेत्कष्टान्तः स्यात्तदा खलु ||६|| इत्यादि गौतमेनोक्तः स ऊचे साध्वहं त्वया । बोधितोऽद्य भवद्विनं परिव्राजय मां ततः ||७|| प्रबुद्ध इति विज्ञाय गौतमस्तमदीक्षयत् । गन्तुं श्रीवीरपादान्ते समं तेन चचाल च ॥ ८ ॥ पप्रच्छ हालिकर्षिस्तं गन्तव्यं भगवन् ! क्व नु । गौतमोऽप्यवदत् साधो ! गन्तव्यमुपमद्गुरु ||९|| हालिकोऽप्यब्रवीदेवं न तुल्यः sud ध्रुवम् । तवापि किं गुरुः कोऽपि ! स च स्यात्कीदृशो ननु ? ॥ १०॥ अथाख्यद् गौतमोऽस्तीह ते मम विश्वगुरुर्गुरुः । चतुस्त्रिंशदतिशयः सर्वज्ञश्चरमो जिनः || ११|| तच्छ्रुत्वा हालिकमुनिः सर्वज्ञे प्रीतिमुद्वहन् । उपार्जयद् बोधिबीजं प्रययौ चानुगौतमम् ॥ १२ ॥ प्रभुं प्रेक्ष्य च संक्रुद्धः सिंहादिभववैरतः । सौऽवोचद् गौतममुनिं भगवन् ! कोऽयमग्रतः ? || १३ || जगाद गौतमोऽसौ मे धर्माचार्यो जिनेश्वरः । सोऽप्यूचे चेद् गुरुस्तेऽसौ तदा नार्थस्त्वयाऽपि मे || १४ || त्वद्दीयाऽप्यलमिति स रजोहरणादिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org