________________
प्रथमं परिशिष्टम् - टिप्पनानि ।
प्रारम्भकत्वादिति । एवमाहारकेणापि सह मिश्रता वेदितव्या, आहारयति च तेनैवेत्यलं विस्तरेण, तथा वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोगस्तदपर्याप्तकस्य कार्मणेनैव एतदुक्तं भवति - देवनारकेषूत्पद्यमानस्य अपर्याप्तकस्येति, आक्षेपपरिहारौ प्राग्वत् । लब्धिवैक्रियपरित्यागे चौदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तेर्वैक्रियप्राधान्यादौदारिकेणापि मिश्रतेत्येके । तथा आहारकशरीरकायप्रयोगस्तदभिनिवृत्तौ सत्यां तस्यैव प्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेन सह, तत्परित्यागेनेतरग्रहणायोद्यतस्य, एतदुक्तं भवतियदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत् सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति । " - प्रज्ञापना० हारि० ॥
[पृ०१८५] “अधिकारिवशात् शास्त्रे, धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुणदोषयोः ||२५|| ( वृत्तिः ) अधिकारोऽस्यास्तीति अधिकारी योग्याऽनुष्ठाता, तस्य वशोऽपेक्षा अधिकारिवशस्तस्मात्, न यथाकथञ्चिदित्यर्थः । शास्त्रे सुनिश्चितासागमे, धर्मसाधनयो: प्रस्तुतयोर्द्रव्यस्नानभावस्नानलक्षणयोः संस्थितिः सम्यग्व्यवस्था, धर्मसाधनसंस्थितिः, किंरूपेयमित्याह । व्याधिप्रतिक्रियातुल्या रोगचिकित्साव्यवस्थासमाना, विज्ञेया सद्गुरूपदेशादर्थिभिरवसेया । कयोर्विषय इत्याह गुणदोषयोः गुणदोषावाश्रित्येत्यर्थः । इयमत्र भावना । यथातुरवशाद्व्याधिचिकित्सा गुणकरी दोषकरी च तथा मलिनारम्भीतरलक्षणानुष्ठातृवशाद् द्रव्येतरस्नानरूपे धर्मसाधने गुणदोषकरे, द्रव्यस्नानं मलिनारम्भिण एव गुणकरं नेतरस्येति हृदयम्, यतो मलिनारम्भी देवतोद्देशेन स्नानादावधिकारी न त्वितरः । श्री अष्टकप्रकरणटीका ॥
-
[पृ०१८६] “एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाविच्छित्त्या नियमादपवर्गबीजमिति || ६ |१४|| विवरणम् :- किमिति शस्तं निदर्शितमित्याह- एतदित्यादि । एतद् जिनभवनम् इह लोके भावयज्ञो भावपूजा सद्गृहिणः सद्गृहस्थस्य जन्मफलमिदं परमं जन्मफलमिदं प्रधानं वर्त्तते, अभ्युदयाव्युच्छित्त्या, अभ्युदयस्य स्वर्गादेरव्यवच्छेदेन सन्तत्या नियमादपवर्गबीजमिति नियमेनापवर्गस्य मोक्षस्य कारणमिति कृत्वा ||६|१४||
योगदीपिका
एतदित्यादि । एतद् जिनभवनविधानम् इह लोके भावयज्ञो यजेर्देवपूजार्थत्वाद्भावपूजा द्रव्यस्तवस्याप्यस्योक्तविधिशुद्धिद्वाराऽऽज्ञाराधन-लक्षणभावपूजागर्भितत्त्वात् । सद्गृहिणः सद्गृहस्थस्य जन्मनः फलमिदं परमं प्रधानमाजन्मार्जितधनस्यैतावन्मात्रसारत्वात् । अभ्युदयस्य स्वर्गादेरव्यवच्छेदेन सन्तत्या नियमात् निश्चयेन अपवर्गतरोः मोक्षवृक्षस्य बीजमेतत् ||६| १४ || ” - षोडशकटीका ॥
Jain Education International
"
-:
[ पृ०१८७ ] “पयईअ तणुकसायो दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो माउं बंध जीवो ||२२|| व्या० 'पयईअ तणुकसायो' त्ति पगईए अप्पकसाओ, पगईए भद्दगो,
For Private & Personal Use Only
www.jainelibrary.org