________________
प्रथमं परिशिष्टम्- टिप्पनानि ।
स्वस्तिकः ५८ सौवस्तिकः ५९ वर्द्धमानकः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयम्प्रभः ६४ अवभासः ६५ ।
श्रेयस्करः ६६ खेमकर ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजा ७० विरजा ७१ अशोकः ७२ वीतशोकः ७३ ।
विवर्त्तः ७४ विवस्त्रः ७५ विशाल: ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ ।
करः ८२ करिकः ८३ राजः ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ ।” इति मलयगिरिसूरिविरचितायां सूर्यप्रज्ञप्तिवृत्तौ ।।
[पृ०१५१] “माया लोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनद्वैष इति समासनिर्दिष्टः ॥३२॥ टीका- उक्तलक्षणौ मायालोभौ । तावेव द्वन्द्वं मिथुनं रागसंज्ञितं रागनामकम् । क्रोधमानौ चोक्तलक्षणावेव । एतदपि द्वन्द्वं द्वयं द्वेष इति निर्दिश्यते संक्षेपतः ॥३२॥" - प्रशमरतिटीका ॥
[पृ०१५१] 'जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ ।..... ॥९९॥' व्या० 'जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ' त्ति जोगाओ पगतिबंधो पदेसबंधो य भवति, कहं ? भन्नइ, जोगाओ पएसगहणं पदेसविरहिओ पगतीणं बंधो पत्थिः, तेण जोगा पगतिपदेसबंधो। ठितिबंधं अणुभागबंधं च कसायतो करेइ । कहं ? भन्नइ, कम्मस्स णिबद्धस्स ट्ठिई रसभावो य कसायतो भवति, ते चेव ठितिअणुभागा। एत्थ अद्दहणतंदुलदिढतो, अद्दहणतुल्लो अणुभागो, तंदुलत्थाणीया पदेसा, जो रद्धो सो चिरकालठाति, इतरो वा पगतीबलातिकरणं ।" - बन्धशतक० चूर्णिः ॥
[पृ०१८१ पं०२०] “औदारिकशरीरकायप्रयोगः, इहौदारिकशरीरमेव पुद्गलस्कन्धसमुदायरूपत्वात् उपचीयमानत्वात् कायः औदारिककायः, तस्य प्रयोग इति समासः, अयं च पर्याप्तकस्यैव वेदितव्यः तथौदारिकमिश्रशरीरकायप्रयोगः, अयं चापर्याप्तकस्येति, आह- केन सहौदारिकं मिश्रम् ?, उच्यतेकार्मणेन, तथा चोक्तं नियुक्तिकारेण शस्त्रपरिज्ञाध्ययने- 'जोएण कम्मएणं आहारेती अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स णिप्फत्ती ॥१।।' आह- यद्येवं किमयं कार्मणमिश्र इति न व्यपदिश्यते ? मिश्रभावस्य द्विष्ठत्वात् विशेषाभावाच्च, उच्यते- कार्मणस्यासंसारमविच्छेदेनावस्थितत्वात् [सर्व शरीरेष्वेव भावात् तिर्यङ्मनुष्यवैक्रियाद्यारम्भसमयेऽनेकधा मिश्रोपपत्तेः, सूत्रे च विचित्रमिश्रताया अनभिधानात्, तस्मादुत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात् कादाचित्कत्वाच्चौदारिकमिश्र एव व्यपदिश्यत इति, यदा पुनरौदारिकशरीरी वैक्रियलब्धिसम्पन्नो मनुष्यः पंचेन्द्रियतिर्यग्योनिको वा पर्याप्तकबादरवायुकायिको वा वैक्रियं करोति तदौदारिकशरीरकाययोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद्वैक्रियशरीरपर्याप्त्या न पर्याप्तिं गच्छति तावद्वैक्रियेण मिश्रताऽव्यपदेशश्चौदारिकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org