SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि । संजाताऽस्येत्यर्थकाङ्क्षितः, पिपासेव पिपासा प्राप्तेऽप्यर्थेऽतृप्तिः, तच्चित्ते त्ति तत्र अर्थादौ चित्तं सामान्योपयोगरूपं यस्यासौ तच्चित्तः, तम्मणे त्ति तत्रैव अर्थादौ मनो विशेषोपयोगरूपं यस्य स तन्मनाः, तल्लेसे त्ति लेश्या आत्मपरिणामविशेषः, तदज्झवसिए त्ति इहाध्यवसायोऽध्यवसितम् । तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन् अर्थादावेवाध्यवसितं परिभोगक्रियासंपादनविषयमस्येति तदध्यवसितः, तत्तिव्वज्झवसाणे त्ति तस्मिन्नेव अर्थादौ तीव्रम् आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा, तदट्ठोवउत्ते त्ति तदर्थम् अर्थादिनिमित्तमुपयुक्तः अवहितस्तदर्थोपयुक्तः, तदप्पियकरणे त्ति तस्मिन्नेव अर्थादावर्पितानि आहितानि करणानिइन्द्रियाणि कृत-कारिता-ऽनुमतिरूपाणि वा येन स तथा, तब्भावणाभाविए त्ति असकृदनादौ संसारे तद्भावनया अर्थादिसंस्कारेण भावितो यः स तथा, एयंसि णं अंतरंसि त्ति एतस्मिन् सङ्ग्रामकरणावसरे कालं मरणमिति ॥" - भगवती० अभय० ११७।१९ ।। [पृ०१३३] “अश्वियमददहनकमलजशशिशूलभृददितिजीवफणिपितरः । योन्यर्यमदिनकृत्त्वष्टपवनशक्राग्निमित्राश्च ॥४॥ शक्रो निर्ऋतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्वरुणः । अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥५॥ अश्वियमदहनेति । अश्व्यादीनां क्रमेण भानां नक्षत्राणामीश्वराः । तद्यथा- अश्विनावश्विन्याः । यमो भरण्याः । दहनोऽग्निः कृत्तिकायाः । कमलजो ब्रह्मा रोहिण्याः । शशी चन्द्रो मृगशिरसः । शूलभृद्रुद्र आर्द्रायाः । आदित्यः पुनर्वसोः । जीवो बृहस्पतिस्तिष्यस्य । फणी सर्प आश्लेषायाः । पितरो मघायाः । योनिर्भगः पूर्वफल्गुन्याः । अर्यमा उत्तरफल्गुन्याः । दिनकृदादित्यो हस्तस्य । त्वष्टा चित्रायाः । पवनो वायुः स्वातेः । शक्राग्नी इन्द्राग्नी विशाखायाः । मित्रोऽनुराधायाः । शक्र इन्द्रो ज्येष्ठायाः । निर्ऋती राक्षसो मूलस्य । तोयं जलं पूर्वाषाढायाः । विश्वे देवा उत्तराषाढायाः । ब्रह्माऽभिजितः । हरिर्विष्णुः श्रवणस्य । वसुर्धनिष्ठायाः । वरुणोऽपाम्पतिः शतभिषजः । अजपादोऽजैकपात् पूर्वभद्रपदायाः । अहिर्बुध्न्य उत्तरभद्रपदायाः । पूषा रेवत्याः । चशब्दः समुच्चये । इत्येवंप्रकारा भानां नक्षत्राणामीश्वराः स्वामिनो नक्षत्रदेवताः ॥९७।४-५॥ - वाराही बृहत्संहिता भट्टोत्पलटीका ॥ [पृ०१३३ पं० १३] “तत्थ खलु इमे अट्ठासीती महग्गहा पं०, तं०- इंगालए वियालए लोहितके सनिच्छरे आहुणिए पाहुणिए कणओ कणए कणकगए कणविताणए १० कणगसंताणे सोमे सहिते अस्सासणो कज्जोवए कब्बडए अयकरए दुंदुभए संखे संखनाभे २० संखवण्णाभे कंसे कंसनाभे कंसवण्णाभे नीले नीलोभासे रुप्पे रुप्पोभासे भासे भासरासी ३० तिले तिलपुप्फवण्णे दगे दगवण्णे काये काकंधे इंदग्गी धूमकेतू हरी पिंगलए ४० । बुधे सुक्कबहस्सती राहू अगत्थी माणवए कासे फासे धुरे पमुहे वियडे ५० विसंधीकप्पे नियल्ले पइल्ले जडियायलए अरुणे अग्गिल्लए काले महाकाले सोत्थिए सोवत्थिए वद्धमाणगे ६० पलंबे निच्चालोए निच्चुजोते सयंपभे ओभासे सेयंकरे खेमकरे आभंकरे पभंकरे अरए ७० विरए असोगे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy