________________
१७०
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे यावत् सप्तमी पृथ्वी तावद्वलयेषु एवं कर्त्तव्यम् । कोऽर्थः ? द्वितीयायां यद्वलयविष्कम्भमानं जातं तदेव पूर्वोक्तप्रक्षेपयुक्तं तृतीयाया वलयविष्कम्भमानं भवति । तृतीयाया वलयविष्कम्भमानं पूर्वोक्तप्रक्षेपयुतं चतुर्थ्यां वलयविष्कम्भमानं भवति । एवं सर्वत्र योज्यं यावत् सप्तम्यां
वलयविष्कम्भमानमिति। अयं तु फलितार्थ:- रत्नप्रभायाः सर्वासु दिक्षु तिर्यग् 5 द्वादशभिर्योजनैरलोकः । एवं द्वितीयस्यास्त्रिभागोनैस्त्रयोदशभिः, तृतीयस्याः सत्रिभागैस्त्रयोदशभिः,
चतुर्थ्याश्चतुर्दशभिः, पञ्चम्यास्त्रिभागोनैः पञ्चदशभिः, षष्ठ्याः सत्रिभागैः पञ्चदशभिः, सप्तम्या: सम्पूर्णैः षोडशभिरिति ॥८५॥ [पृ०२९९] विदिसाउ दिसिं पढमे, बीइए पइसरइ लोअनाडीए ।
तइए उप्पिं धावइ, चउत्थए नीइ बाहिं तु ॥८६॥ 10 पंचमए विदिसाए, गंतुं उप्पज्जई उ एगिंदी ॥८७॥ गाथार्द्धम् ॥
व्या० एके न्द्रियजीवस्य पञ्चसामयिकी गतिर्भवति, तमस्तमायाः पृथिव्या अधस्त्रसनाडीबहिर्विदिस्थित एकेन्द्रियो यदा त्रसनाडीबहिर्ब्रह्मलोकविदिशि उत्पद्यते तदा पञ्च समया लगन्ति, तथाहि- प्रथमसमये विदिशि मृत्वा दिशि याति, द्वितीये समये प्रतिसरति
लोकनाड्याम्, तृतीये समये ऊर्ध्वं धावति यावद् ब्रह्मलोकसमश्रेणिः, चतुर्थके समये याति 15 सनाडीबहिर्दिशि, पञ्चमके समये विदिशि गत्वा उत्पद्यते तु एकेन्द्रिये एकेन्द्रियः तदा पञ्च समया संभवन्ति ॥८६-८७॥
अत्र विरोधोद्भावनेन समाधानं विशेषणवत्याम्सुत्ते चउसमयाओ, नत्थि गई उ परा विनिद्दिट्ठा । जुज्जइ य पंचसमया, जीवस्स इमा गई लोए ॥८॥ जो तमतमविदिसाए, समोहओ बंभलोगविदिसाए । उव्वजई गईए, सो नियमा पंचसमयाए ॥८९॥ [विशेषणवती २३,२४] उजुयाइ एगवक्का दुहओ वक्का गई विनिद्दिट्ठा । जुज्जइ तिचउवक्का तमेव उ पंचसमयाए ॥
व्या० सूत्रे सिद्धान्ते चतुस्समयात् परा उत्कृष्टा पञ्चसामयिकी गतिर्नास्तीति निर्दिष्टा, 25 पञ्चसमया च युज्यते जीवस्य इमा गतिर्लोके, यस्तमस्तमाविदिश: समवहतो
मरणसमुद्घातेन ब्रह्मलोकविदिशि उत्पद्यते गत्या स नियमात् पञ्चसमयया उत्पद्यते तदा पञ्च समया भवन्ति । तथा ऋजुकायां गतौ एका वक्रा गतिः एकसमयोऽनाहारकः, द्विधा वक्रा गतिरपि विनिर्दिष्टा, युज्यते त्रिसमया चतुस्समया च वक्रगतिः, कुत्र ? तमायां तमस्तमायां
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org