SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम् १७१ वा चतुष्पञ्चसमयायां गतौ पूर्वोक्तप्रकारेण ॥८८-८९ ॥ अथ विरोधभञ्जनार्थमुत्तरं भणति - उववायाभावाओ, न पंचसमयाऽहवा न संता वि । भणिया जह चउसमया, महल्लबंधे न संतावि ॥ ९० ॥ [ विशेषणवती २६] व्या० उपपाताभावान्न पञ्चसमया गतिः, कोऽर्थः ? तमायास्तमस्तमाया अधः पृथिव्या विदिशि स्थितो जन्तुर्ब्रह्मलोके त्रसनाडीबहिर्विदिशि नोत्पद्यते, अथवा प्रकारान्तरेण पञ्चसामयिकीं 5 गतिं समर्थयति-सती अपि पञ्चसामयिकी गतिर्न भणिता, यथा चतुस्सामयिकी गतिर्महाप्रबन्धे न सत्यपि उक्ता । वस्तुतः पञ्चसामयिकी गतिरस्तीति विचारलेशः ॥ ९०॥ एवं चिण उवचिण बंधोदी रखेय तह निज्जरा चेव । गाथार्द्धम् । [ 1 व्या० मिथ्यात्वा-ऽविरति-कषाय-योगैरर्जितान् पुद्गलानशुभाध्यवसायतः पूर्वं जीवश्चिनोति आसकलतः, तत उपचिनोति परिपोषणतः, ततो बध्नाति निर्मापणतः, तत उदीरयति अध्यव - 10 सायवशेनानुदीर्णोदयप्रवेशनतः, ततो वेदयति अनुभवनतः, ततो निर्जरयति प्रदेशपरिशाटनतः ॥ [पृ०३००] चरमे नाणावरणं, पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं, खवइत्ता केवली होइ ॥ ९१ ॥ [ 1 व्या० चरमे समये ज्ञानावरणं पञ्चविधं मति - श्रुताऽवधि-मनः पर्याय- केवलावरणरूपम्, तथा दर्शनं चतुर्विकल्पं चक्षुर्दर्शनादि, एवं पञ्चविधमन्तरायं च दान - लाभ - भोगोपभोग - 15 वीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः ॥ ९१ ॥ धम्मजिणाओ संती आव० नि० १३ ]ति पादोना गाथा एगो भगवं वीरो [आव ० नि० २२४] इति गाथार्द्धं च नोल्लिखितमत्र । [पृ०३०१] संती कुंथू अ अरो, अरिहंता चेव चक्कवट्टी अ । अवसेसा तित्थयरा, मंडलिआ आसि रायाणो || १२ || [ आव० नि० २२३] 20 व्या० शान्तिः कुन्थुररोऽरिहन्तार एते त्रयः तीर्थकराश्चक्रवर्त्तिन एतावन्तः अर्हत्पदवीं चक्रवर्त्तिपदवीं च भुक्ता अवशेषा एकोनविंशतितीर्थकरा माण्डलिका राजान आसन्, एतावन्तः चक्रवर्त्तिपदवीं न प्राप्ताः ॥ ९२ ॥ सर्वगाथा २३२ गाथार्थः ॥ इति श्रीवाचनाचार्यसुमतिकल्लोलगणि-वादिहर्षनन्दनगणिभ्यां लिखिते श्रीस्थानाङ्गटीकालिखितोक्तगाथाविवरणे तृतीयस्थानटीकालिखितगाथाविवरणं सम्पूर्णम् ।। १. आवश्यकनिर्युक्तौ उसभे अरिहा [गा०४१६] इत्यतः पूर्वं प्रक्षिप्ताः सप्तदश गाथा वर्तन्ते, तत्रेयं त्रयोदशी गाथा || Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy