SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ १६९ त्रिस्थानके चतुर्थोद्देशटीकागतगोथाविवरणम् व्या० यथा सुरभिकुसुमानां जाति-केतक्यादिसम्बधिनां सुगन्धिनां सुगन्धिपुष्पाणां गन्धः परिमलः सुरभिकुसुमगन्धः, तथा गन्धाश्च कोष्ठपुटपाकनिष्पन्ना वासाश्चेतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषाम्, पाठान्तरतश्च गन्धानां पिष्यमाणानां सञ्चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, अतोऽपि एतत्प्रकारादपि गन्धादनन्तगुणोऽतिशयसुगन्धितया प्रशस्तलेश्यानां तिसृणामपि तैजसीपद्मशुक्लानां 5 गन्ध इति प्रक्रमः । इहापि प्रशस्तत्वविशेषोऽनुमीयत इति नोक्तः ॥८२॥ [पृ०२९८] न वि अ फुसंति अलोगं, चउसुं पि दिसासु सव्वपुढवीओ । संगहिआ वलएहिं, विक्खंभं तेसि वोच्छामि ॥८३॥ [बृहत्संग्रहणी २४३] व्या० नापि स्पृशन्त्यलोकं चतसृष्वपि दिक्षु सर्वाः सप्तापि पृथिव्यः, यतो वलयैर्घनोदधि-घनवात-तनुवातसत्कैः सगृहीता वेष्टिताः, यतोऽमी त्रयोऽपि स्वां स्वां पृथिवीं 10 वलयाकारेणावृत्य स्थितास्सन्तीति । विष्कम्भं विस्तारं तेषां घनोदधि-घनवात-तनुवातवलयानां वक्ष्यामि ॥८३॥ तेषां तमेवाहछच्चेव १ अद्धपंचम २, जोअणमद्धं ३ च होंति रयणाए । उदहीघणतणुवाया, जहासंखेण निद्दिट्ठा ॥८४॥ [बृहत्संग्रहणी २४४] । 15 व्या० षड् योजनानि १, अर्द्ध पञ्चमं येषु तान्यर्द्धपञ्चमानि सार्द्धचत्वारि योजनानीत्यर्थः, सार्द्ध योजनं चेत्यर्थः [योजनमर्द्धं च], यथासङ्ख्यं वलया विष्कम्भतो निर्दिष्टाः । तथाहिरत्नप्रभायाः घनोदधिवलयविष्कम्भः षड् योजनानि, घनवातवलयविष्कम्भः सार्द्धानि चत्वारि योजनानि, तनुवातवलयविष्कम्भः सार्धं योजनम्, ततः परमलोकः ॥८४॥ अथ शेषासु पृथ्वीषु वलयत्रयविष्कम्भपरिज्ञापनाय क्षेप्तव्यगाथामाह 20 तिभागो गाउअं चेव, तिभागो गाउअस्स य । आइधुवे पक्खेवो, अहो अहो जाव सत्तमिआ ॥८५॥ [बृहत्संग्रहणी० २४५] व्या० एष्वेव त्रिषु प्रथमपृथ्वीवलयेषु ध्रुवेषु यथासङ्ख्यमेतत् क्षिपेत्, तदेवाह- त्रिभागो योजनस्येति गम्यते, गव्यूतं सत्रिभागम् इत्यर्थः १, तथा पूर्णं गव्यूतम् २, गव्यूतस्य च त्रिभागः, योजनस्य च द्वादशो भाग इत्यर्थः ३, ततो द्वितीयस्याः शर्कराप्रभाया वलयानां 25 विष्कम्भो भवति, तद्यथा-घनोदधिवलये षड् योजनानि योजनस्य च त्रिभागः, घनवाते पञ्च पादोनानि, तनुवाते योजनमेकं सप्त च द्वादशभागा योजनस्य, अहो अहो इति अधोऽधो १. विशेषाद्गन्धविशेषोऽनुमीयते- इति उत्तराध्ययनशान्त्याचार्यवृत्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy