________________
१६८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे गृहमलापनयने प्रदीपवत् । क्रिया तु तपस्संयमरूपत्वादित्थमुपकुरुते- शोधयतीति शोधकम्, किं तदित्याह-तापयत्यनेकविधभावोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत् । तथा संयमनं संयमः
भावेऽप्प्रत्ययः, आश्रवद्वारविरमणमिति यावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ 5 भिन्नोपकारकर्तृत्वाच्चावधारणार्थः । गोपनं गुप्तिः, स्त्रियां क्तिन् [पा. ३।३।९४] आगन्तुककर्म
कचवरनिरोध इति हृदयम्, गुप्तिकरणशीलो गुप्तिकरः । ततश्च संयमोऽप्यपूर्वकर्मकचवरागमनिरोधतयैवोपकुरुते, तत्स्वभावत्वाद्, गृहशोधने पवनप्रेरितकचवरागमननिरोधेन वातायनादिस्थगनवत् । एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा सम्भावने, किं सम्भावयति ?
त्रयाणामपि ज्ञानादीनाम्, किंविशिष्टानाम् ? निश्चयतः क्षायिकाणाम्, न तु क्षायोपशमिकानामिति, 10 समायोगे संयोगे मोक्षः सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनम्,
तस्मिन् भणित उक्तः । आह- सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः [तत्त्वार्थ० १।१] इत्यागमो विरुद्ध्यते, सम्यग्दर्शनमन्तरेणोक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते- सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वाज्ज्ञानान्तर्भावाददोष इति ॥७९॥
[पृ०२९४] कसिणं केवलकप्पं, लोगं जाणंति तह य पासंति । 15
केवलचरित्तनाणी, तम्हा ते केवली होति ॥८०॥ [आव० नि० १०९२] व्या० केवलिशब्दस्य व्युत्पत्तिं करोति, कृत्स्नं केवलकल्पम् अनन्तं पूर्णं वा लोकं जानन्ति तथा च पश्यन्ति, केवलम् एकं चारित्रं यथाख्यातरूपं ज्ञानं केवलज्ञानम्, तद् यस्यास्तीति केवलचरित्रज्ञानी, तस्मात्ते केवलिनो भवन्ति ॥८०॥ [पृ०२९५] जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स ।
___ एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥८१॥ [उत्तराध्ययनसू० ३४/१६]
व्या० यथा गवां मृतकं मृतकशरीरम्, तस्य गन्धः, श्वमृतकस्य च, यथा अहिः सर्पस्तन्मृतकस्य, गन्ध इति सम्बन्धः, सूत्रत्वान्मृतकशब्दे कलोपः, अतोऽपि एतत्प्रकारादपि
गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानामप्रशस्तानामशुभानाम्, कोऽर्थः ? कृष्णनीलकापोतानां __ गन्ध इति प्रक्रमः । इह च लेश्यानामप्रशस्तत्वं गन्धस्याप्यशुभत्वे हेतुरिति तद्विशेषादनुक्तोऽप्यस्य 25 विशेषोऽवगम्यत इति नोक्तः ॥८॥
जह सुरभिकुसुमगंधो, गंधो वासाण पिस्समाणाणं ।
एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि ॥८२॥ [उत्तराध्ययन सू० ३४/१७] १. यमः समुपनिविषु च - पा० ३।३।६३ ॥ २. तुल्यप्रायं वादिवेतालशान्तिसूरिकृतोत्तराध्ययनवृत्तौ पाइयटीकायाम्॥ ३. गंधवासाण- इति पाइयटीकायाम् ।।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org