________________
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम्
या वया य ते च्चिअ, ते चेव पमाय अप्पमाया य । मोक्खाहिगारिआणं, जोइसजोणीहिं किं कज्जं ? ॥७५॥ [ बृहत्कल्पभा० १३०३] व्या० सिद्धान्ते कायाः षट् कायास्त एव, व्रतानि तान्येव, प्रमादास्त एव, अप्रमादास्तएव, वारंवारं कथनेन पुनरुक्तदोषो भवति । अथ च मोक्षाधिकारिणां गणधराणां ज्योतिर्योनिकथने किं प्रयोजनम् ?, यतो ज्योतिःशास्त्रं मोक्षसाधनं नास्ति, मृगशीर्षे मृगमांसं 5 भुक्त्वा कार्यं साधयति, एतस्य किं प्रयोजनम् ? | योनिस्त्रिधा - वंशीपत्रा कूर्मोन्नाशखावर्ता, तासां प्ररूपणे किं प्रयोजनम् ? इति सिद्धान्तावर्णवादः ॥ ७५ ॥
[पृ०२९१] बत्तीसऽट्ठावीसा, बारस अट्ठ य चउर सयसहस्सा ।
आरेण बंभलोगा, विमाणसंखा भवे एसा ॥७६॥ [ बृहत्सं० १९७, प्रव० ११५१]
व्या० द्वात्रिंशदष्टाविंशतिर्द्वादश अष्टौ चत्वारि शतसहस्राणि यथासङ्ख्यं ब्रह्मलोकं यावत् 10 पञ्चसु देवलोकेषु, अयमर्थः - सौधर्मे विमानानां द्वात्रिंशल्लक्षाणि ३२०००००, एवमीशानेऽष्टाविंशतिः २८०००००, सनत्कुमारे द्वादश १२०००००, माहेन्द्रेऽष्टौ ८०००००, ब्रह्मलोके चत्वारि ४०००००, एषा विमानसङ्ख्या भवेत् ॥ ७६ ॥
पंचास चत्त छच्चेव, सहस्सा लंत - सुक्क सहस्सारे ।
सय चउरो आणय-पाणएसु तिन्नारण- ऽच्चुअए ॥ ७७ ॥ [ बृहत्सं० १९८, प्रव० ११५२] 15 व्या० पञ्चाशच्चत्वारिंशत् षट् सहस्राणि, लान्तक - शुक्र - सहस्रारे यथासङ्ख्यम्, तथाहिलान्तके विमानानां पञ्चाशत् सहस्राणि ५००००, एवं शुक्रं चत्वारिंशत् सहस्राणि ४००००, सहस्रारे षट् सहस्राणि ६०००, चत्वारि शतानि आनत-प्राणतयोस्समुदितयोः, एवं त्रीणि शतानि आरणा-ऽच्युतयोस्समुदितयोः ॥७७॥
१६७
एक्कारसुत्तरं हेट्ठिमेसु, सत्तुत्तरं च मज्झिमए ।
20
सयमेगं उवरिमए, पंचेव अणुत्तरविमाणा || ७८ || [बृहत्सं० १९९, प्रव० ११५३ ] व्या० एकादशाधिकं शतम् १११ अधस्तनग्रैवेयकत्रिके, सप्तोत्तरं शतं १०७ मध्यमत्रिके, शतमेकं १०० विमानानामुपरितनत्रिके, पञ्चैवानुत्तरविमानानि ॥ ७८ ॥ [पृ०२९३] नाणं पगासयं सोहओ तवो संजमो अ गुत्तिकरो ।
तिन्हं पि समाओगे, मोक्खो जिणसासणे भणिओ ॥ ७९ ॥ [ आव०नि० १०३ ] 25 व्या० तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवदिह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानम्, तच्च प्रकाशयतीति प्रकाशकम्, तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, १. महाशुक्रे - इति प्रवचनसारोद्धार - बृहत्संग्रहणीवृत्त्योः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org