________________
१६६
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे अहवा वि वए एवं, उवएसं परस्स दिति एवं तु । दसविहवेयावच्चं, कायव्वं सयं न कुव्वंति ॥७१॥ [ ]
व्या० अथवा धर्माचार्यावर्णवाद एवम्, तदाह- अथवाऽपि वदेदेवम् अवर्णवादीति शेषः, एते धर्माचार्यादयः परस्य पृच्छकस्य शिष्यादेर्वा उपदेशं शिक्षाम् एवं ददति । एवमिति 5 किम् ? दशविधं वैयावृत्त्यं कर्त्तव्यम्, आचार्योपाध्यायकुलगणसङ्घादेरिति शेषः, परं स्वयं न कुर्वन्ति, कृतकृत्यत्वात्, परोपदेशे कुशला इति चाणाक्यनीतिशास्त्रोक्ता इव दृश्यन्त इति ॥७१॥
[पृ०२८७) अथ कुल-गण-सङ्घलक्षणं वक्ति
एत्थ कुलं विन्नेयं, एगायरियस्स संतई जाओ । 10 तिण्ह कुलाण मिहो पुण, साविक्खाणं गणो होइ ॥७२॥ [ ]
व्या० अत्र कुलं विज्ञेयम् एकाचार्यस्य सन्ततयः कुलम्, यथा वज्रसेनस्य सन्ततयश्चन्द्रकुलम् । तथा त्रयाणां कुलानां मिथ: सापेक्षाणां सम्बद्धानां समुदायो गणो भवति, यथा इन्द्र-चन्द्र-नागेन्द्रकुलानां गणः कोटिको भवति ॥७२।।
सव्वो वि नाण-दसण-चरणगुणविभूसियाण समणाणं । 15 समुदाओ पुण संघो, गुणसमुदाओ त्ति काऊणं ॥७३॥ [ ]
व्या० सर्वोऽपि ज्ञानदर्शनचरणगुणविभूषितानां श्रमणानां समुदायः सङ्घो भवति, भगवदाज्ञया ज्ञानदर्शनचारित्रवन्तस्साधवस्सङ्घः, तत्र कारणमाह- गुणसमुदाय इति कृत्वा, गुणानां पूर्वोक्तानां समुदायस्सङ्घ इत्यर्थः, अत एवोक्तम्-आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ [संबोधसत्तरि ३७] ॥७३॥ 20 अथ सिद्धान्तावर्णवादमाह
पागयसुत्तनिबद्धं, को वा जाणइ पणीय केणेयं । किंवा चरणेणं तु, दाणेण विणा उ हवइ त्ति ॥७४॥ [ ]
व्या० प्राकृतसूत्रनिबद्धम्, प्रकृतौ भवानि प्राकृतानि च तानि सूत्राणि च प्राकृतसूत्राणि, तैर्निबद्धं सूत्रम् । अथवा प्राकृतभाषानिबद्धम् एकादशाङ्गीरूपम्, को जानाति? केनेदं प्रणीतम्?, 25 गणधरास्तु सकलाक्षरसंयोगवेदिनो गीर्वाणवाणीविशारदाः संस्कृतवाणीं विहाय प्राकृतभाषया
कथं सूत्रं निबध्नन्तीति सिद्धान्तावर्णवादः । अथ चारित्रावर्णवादः तु पुनश्चारित्रेण किं दानं विना भवति ? चारित्रं पाल्यते दानं च दीयते तदा सिद्धिर्भवति नान्यथेति भावः ॥७४।। सिद्धान्तावर्णवादमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org