________________
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम्
यास्तु
मस्माकमित्येवमवगतार्थास्तथा ययोः पिण्डैषणयोरसंसृष्टा-संसृष्टाख्ययोरग्रहस्ते परिहर्त्तव्ये, उपरितन्यः पञ्चैषणास्तासामभिग्रह एता एव ग्रहीतव्या इत्येवंरूपस्तत्राप्येकदैकतरस्यां योगो व्यापारः परिभोग इत्यर्थः । एवं भावितमतयो यदा भवन्ति तदा जिनकल्पिकचारित्रमुपयान्ति प्रतिपद्यन्ते ॥६७॥
धिइबलिआ तवसूरा, निंती गच्छाउ ते पुरिससीहा ।
बलवीरिअसंघयणा, उवसग्गसहा अभीरू अ ॥६८॥ [ बृहत्कल्पभा० ६४८४] व्या० धितिबलीति, धृतिर्वज्रकुड्यवदभेद्यं चित्तप्रणिधानम्, तया बलिका बलवन्तस्तथा तपश्चतुर्थादिकं षण्मासिकान्तम्, तत्र शूराः समर्थाः, एवंविधाः पुरुषसिंहास्ते गच्छान्निर्गच्छन्ति। बलं शारीरम्, वीर्यं जीवप्रभवम्, तद्धेतुः संहननमस्थिनिचयात्मकं येषां ते तथा, बलवीर्यग्रहणं च चतुर्भङ्गीज्ञापनार्थम्, सा चेयम् - धृतिमान्नामैको न संहननवान् १, संहननवान्नामैको न धृतिमान् 10 २, एको धृतिमानपि संहननवानपि ३, एको न धृतिमान् न संहननवान् ४, तत्र तृतीयभङ्गेनाधिकारः । उपसर्गादिव्यादयस्तेषां सहाः सम्यगध्यासितारस्तथाऽभीरवः परीषहेभ्यो न बिभ्यति ॥६८॥ पव्वज्जा सिक्खावयमत्थग्गहणं च अनियओ वासो ।.
निष्पत्ती अ विहारो, सामायारी ठिई चेव ॥ ६९ ॥
[विशेषाव० ७, बृहत्कल्पभा० ११३२ ]
व्या० प्रथमं प्रव्रज्या वक्तव्या कथमसौ जिनकल्पिकः प्रव्रजति इति १, ततः शिक्षापदं ग्रहणासेवनाविषयम् २, ततो ग्रहणशिक्षयाऽधीतसूत्रार्थग्रहणम् ३, ततो नानादेशदर्शनं कुर्वतो यथा अनियतो वासो भवति ४, ततः शिष्याणां निष्पत्ति: ५, तदनन्तरं विहार : ६, ततो जिनकल्पं प्रतिपन्नस्य सामाचारी ७, ततस्तस्यैव स्थितिः क्षेत्र - कालादिकाऽभिधातव्येति गाथासमुदायार्थः । इयं च बृहत्कल्पे द्वारगाथेति मन्तव्यम् ॥६९॥
१६५
Jain Education International
For Private & Personal Use Only
5
15
[पृ०२८६] जच्चाईहिं अवण्णं, विभासइ वट्टइ न यावि उववाए ।
अहिओ छिद्दप्पेही, पगासवादी अणणुलोमो ॥ ७० ॥ [ बृहत्कल्पभा० १३०५] व्या० जात्या, आदिशब्दात् कुलादिभिश्च सद्भिरसद्भिर्वा दोषैरवर्णं भाषते, यथा नै विशुद्धजातिकुलोत्पन्नाः, न वा लोकव्यवहारकुशलाः, नाप्येते औचित्यं विदन्ति इत्यादि । न चापि वर्त्तते उपपाते गुरूणां सेवावृत्तौ, अहितोऽनुचितविधायी, छिद्रप्रेक्षी मत्सरितया 25 गुरोर्दोषनिरीक्षणशीलः, प्रकाशवादी सर्वसमक्षं गुरुदोषभाषी, अननुकूलो गुरूणामेव प्रत्यनीकः कूलवालकवत्, एष धर्माचार्यावर्णवादः ॥ ७०॥৷
१. प्रव्रजित इति - बृहत्कल्पभाष्यवृत्तौ ॥ २. णुकूलो - बृहत्कल्पभाष्ये ॥
20
www.jainelibrary.org