SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ १६४ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे ___ एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, ते चैवंविधा:[पृ०२८५] सव्वे चरित्तवंतो उ, दंसणे परिनिट्ठिया । नवपुव्विआ जहन्नेणं, उक्कोसेणं दसपुव्विआ ॥६५॥ पंचविहे ववहारे, कप्पम्मि दुविहम्मि अ । दसविहे अ पच्छित्ते, सव्वे ते परिनिट्ठिया ॥६६॥ [बृहत्कल्पभा० ६४५४-६४५५] व्या० सर्वे निर्विशमानका निर्विष्टाः [च] परिहारविशुद्धिकाः चरित्रवन्तः परिहारविशुद्धिचारित्रवन्तो दर्शने सम्यक्त्वे परिनिष्ठिता: क्षायोपशमिके क्षायिके [च] परिनिष्णाताः देवा-ऽसुर-यक्ष-राक्षसाद्यचालितसम्यक्त्वाः, नवपूर्विकाः, नव पूर्वाणि पूर्वं रचितत्वात् पूर्वाणि 10 उत्पादादीनि येषामध्ययनं ते नवपूर्विकाः । अत्र सामान्योक्तावपि नवमं पूर्वं वस्तूनं जघन्यं श्रुतम्, वस्त्विति अधिकारविशेषः । उत्कृष्टतोऽध्ययनं संपूर्णानि देश पूर्वाणि येषां ते दशपूर्विकाः । पुनः कथम्भूतास्ते ? परिनिष्ठिता: परिनिष्णाताः, क्व ? पञ्चविधे व्यवहारे आगम १ श्रुत २ आज्ञा ३ धारणा ४ जीत ५ रूपे, यत उक्तम्- [व्यवहारसूत्रे दशमे उद्देशके] पंचविहे ववहारे पन्नत्ते, आगमे सुते आणा धारणा जीते । जहा से तत्थ आगमे सिया आगमेणं 15 व्यवहारं पट्ठवेज्जा, णो से तत्थ आगमे सिआ, जहा से तत्थ सुते सिआ सुतेण ववहारं पट्ठवेज्जा, णो से तत्थ सुए सिया, जहा से तत्थ आणा सिया आणाए ववहारं पट्ठवेज्जा, णो से तत्थ आणा सिया, जहा से तत्थ धारणा सिया धारणाए ववहारं पट्ठवेज्जा, णो से तत्थ धारणा सिया, जहा तत्थ जीए सिया जीएणं ववहारं पट्ठवेज्जा, इच्चेतेहिं पंचहिं ववहारेहिं ववहारं पट्ठवेज्जा, तंजहा आगमेण जाव जीतेणं, जधा जधा से तत्थ आगमे जाव जीते तहा तहा ववहारं पट्ठवेजा । 20 पुनः क्व? द्विविधे कल्पे अवस्थितानवस्थितरूपे, आचेलक्यादिषट्सङ्ख्ये अवस्थितकल्पे, राजपिण्डादिचतुस्सङ्ख्ये अनवस्थितकल्पे । पुनः क्व ? दशविधे प्रायश्चित्ते- तं च दसविहं आलोअणारिहं १ पडिक्कमणारिहं २ तदुभयारिहं ३ विवेगारिहं ४ उस्सग्गारिहं ५ तवारिहं ६ छेदारिहं ७ मुलारिहं ८ अणवठ्ठप्पारिहं ९ पारंचिआरिहं १० [ ] इति । एवंविधा महानुभावा: साधवः परिहारविशुद्धं चारित्रं पालयन्तीति परमार्थः ॥६५-६६।। 25 गच्छम्मि अ निम्माया, धीरा जाहे अ गहिअपरमत्था । अग्गहि जोग अभिग्गहि, उविंति जिणकप्पिअचरित्तं ॥६७॥ [बृहत्कल्पभा० ६४८३] व्या० यदा गच्छे प्रव्रज्या-शिक्षापदादिक्रमेण निर्माता निष्पन्ना धीरा औत्पत्तिक्यादिबुद्धिमन्तः परीषहोपसर्गरक्षोभ्या वा, मुणितपरमार्था अभ्युद्यतविहारेण विहर्तुमवसरस्साम्प्रत१. दशपूर्विणः किञ्चिन्यूनदशपूर्वधरा मन्तव्याः' इति बृहत्कल्पवृत्तौ ॥ २. मुणिय-बृहत्कल्पभाष्ये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy