________________
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम् व्या० अविद्यमानं चेलं वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यम् १ । उद्देशेन साधुसङ्कल्पेन निर्वृत्तमौदेशिकम् आधाकर्म २ । शय्यया वसत्या तरति संसारसागरमिति शय्यातरः, स च, राजा च नृपश्चक्रवर्त्यादिस्तयोः पिण्डः समुदानमिति शय्यातर-राजपिण्डः ३-४ । कृतिकर्म वन्दनकम् ५ । एतेषां च समाहारद्वन्द्वत्वात् सप्तम्येकवचनम्, ततश्चाचेलक्यादिषु यथास्वं विधिनिषेधाभ्यां स्थिता-ऽस्थिताः साधवो भवन्तीत्ययमोघकल्पः । एतेष्वेव च प्रथम- 5 चरमजिनसाधवः स्थिता एवेति स्थितकल्पः तेषाम्, तथा व्रतानि महाव्रतानि ६ ज्येष्ठो रत्नाधिक: ७ प्रतिक्रमणम् आवश्यककरणम् ८, सप्तम्येकवचनं प्राग्वत्, मासमिति प्राकृतत्वादनुस्वारः, परि सर्वथा वसनम् एकत्र निवासो निरुक्तविधेः पर्युषणमेतद्वयलक्षण: कल्प आचारो मासपर्युषणकल्पः ९-१० । तत्र च स्थितास्थितेत्यादि प्राग्वदिति गाथासमासार्थः ॥६२।। [पृ० २८४] परिहारिकसामाचारीमाह
10 बारस १ दस २ अट्ठ ३ दस १ ऽट्ठ २, छट्ठ ३ अट्ठेव १ छट्ठ २ चउरो ३ अ। उक्कोस-मज्झिम-जहन्नगा उ वासा-सिसिर-गिम्हे ॥६३॥ [बृहत्कल्पभा० ६४७२]
व्या० द्वादशम् १ दशमम् २ अष्टमम् ३, दशमम् १ अष्टमं २ षष्ठम् ३, अष्टमं १ षष्ठं २ चतुर्थम् ३, एते उपवासा उत्कृष्ट-मध्यम-जघन्या वर्षा-शिशिर-ग्रीष्मे, समाहारद्वन्द्वेनैकवचनम्। अत्रेयं भावना-पारिहारिकस्य वर्षासूत्कृष्टं तपो द्वादशम् 15 उपवासपञ्चकलक्षणम्, मध्यमं दशमम् उपवासचतुष्टयलक्षणम्, जघन्यमष्टमम् उपवासत्रयलक्षणम्। शिशिरे शीतकाले ग्रीष्मतः किञ्चित्साधारणे उत्कृष्टं तपो दशमम् उपवासचतुष्कम्, मध्यममष्टममुपवासत्रयम् जघन्यं षष्ठम् उपवासद्वयम् । अतिरूक्षत्वात् ग्रीष्मे उष्णकाले उत्कृष्टं तपः अष्टममुपवासत्रयम्, मध्यमं षष्ठं द्वावुपवासौ, जघन्यं चतुर्थमेकोपवासः ॥६३।। पारणगे आयामं, पंचसु गहो दोसुऽभिग्गहो भिक्खे ।
20 कप्पट्ठिया य पइदिण, करेंति एमेव चायामं ॥६४॥ [प्रवचनसारो० ६०५]
व्या० पारणके त्रिष्वपि कालेषु तेषामाचाम्लं भवति । तथा संसृष्टादयः सप्त भिक्षा भवन्ति, तत्र पञ्चसु उत्तरासु उद्धृतादिषु ग्रहो ग्रहणम्, संसृष्टासंसृष्टे आद्ये द्वे भिक्षे वर्जयित्वा उद्धृतादयः पञ्चैव ग्रहीतव्या इत्यर्थः । दोसु इति पुनरपि विवक्षितदिनेऽन्त्यानां मध्ये द्वयोरभिग्रहः अद्य मया द्वे एव विवक्षिते भिक्षे ग्राह्ये इत्येवंरूपः । तत्राप्येका भक्ते एका पानके चेति। 25 इदं चतुर्णां पारिहारिकाणां तपः, ये तु कल्पस्थितादयः पञ्च एको वाचनाचार्यश्चत्वारोऽनुचारिणस्ते सर्वेऽपि एवमेव पूर्वोक्तभिक्षाऽभिग्रहयुक्तास्सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति ॥६४।। १. तुलना- पञ्चाशकवृत्तिः १७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org