SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ १६२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [पृ०२८४] दुविहो होइ अचेलो असंतचेलो अ संतचेलो अ । तत्थ असंतेहि जिणा संताचेला भवे सेसा ॥५८॥ [बृहत्कल्पभा० ६३६५] व्या० द्विधा भवति अचेलः- असद्भिर्वस्त्रैरचेलः, सद्भिर्वस्त्रैरचेलश्च। तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति पुरुहूतोपनीतदेवदूष्यापगमानन्तरम्, तीर्थकरव्यतिरिक्तास्तु साधवो 5 विद्यमानैरपि वस्त्रैरचेलाः स्वल्पमूल्य-श्वेत-खण्डितवस्त्राश्रयणात् । दृश्यते च लोके विवक्षितवस्त्राभावे सचेलत्वे विशिष्टार्थाप्रसाधकत्वेन असत्त्वाविशेषादचेलव्यवहारः । तदेव प्रादुः कुर्वन्नाह सीसावेढिअपोत्तं, नइउत्तरणम्मि नग्गयं बिंति ।। जुन्नेहिं नग्गिअ म्हि, तुर सालिअ ! देहि मे पोत्तिं ॥५९॥ [बृहत्कल्पभा० ६३६६] व्या० सीसेति जलतीमनभयात् शीर्षे शिरसि आवेष्टितं पोतं परिधानवस्त्रं येन स 10 शीर्षावेष्टितपोतस्तमेवंविधं सचेलमपि नद्युत्तरणे अगाधायाः कस्याश्चिन्नद्या उत्तरणं कुर्वन्तं दृष्ट्वा नग्नकं ब्रुवते, नग्नोऽयमिति लोके वक्तारो भवन्तीत्यर्थः । यथा वा काचिदविरतिका परिजीर्णवस्त्रपरिधाना प्राक्समर्पितवेतनं तन्तुवायं शाटिकानिष्पादनालसं ब्रवीति, यथा जीर्णैर्वस्त्रैः परिहितैनग्निकाऽहमस्मि, तत् त्वरस्व हे शालिक ! तन्तुवाय ! देहि मे पोतिकां शाटिकाम् ॥५९॥ 15 जुण्णेहिं खंडिएहिं, असव्वतणुपाउएहिं ण य णिच्चं । संतेहि वि णिग्गंथा, अचेलया होति चेलेहिं ॥६०॥ [बृहत्कल्पभा० ६३६७] व्या० एवं जीर्णैः पुराणैः खण्डितैः छिन्नैरसर्वतनुप्रावृतैः स्वल्पप्रमाणतया सर्वस्मिन् शरीरेऽप्रावृतैः प्रमाणहीनैरित्यर्थः, न च नित्यं सदैव प्रावृतैः, किन्तु शीतादिकारणसद्भावे, एवंविधैश्चेलैस्सद्भिरपि विद्यमानैरपि निर्ग्रन्था अचेला भवन्ति ॥६०।। दसठाणठिओ कप्पो, पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुअरय कप्पो, दसठाण पइट्ठिओ होइ ॥६१॥ [बृहत्कल्पभा० ६३६३] व्या० दशस्थानस्थितः कल्पः पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थे छेदोपस्थापनीयसाधूनां मन्तव्यः, तदेवम् एष धुतरजाः कल्पो दशस्थानप्रतिष्ठितो भवति ॥६१।। अथ स्थितास्थितकल्पदशकं नामत आह25 आचेलुक्कु १ देसिअ २, सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ पडिक्कमणे ८, मासं ९ पज्जोसवणकप्पे १० ॥६२॥ [बृहत्कल्पभा० ६३६४, पञ्चाशक० १७।६] १. तुलना- प्रवचनसारोद्धारवृत्तौ, गा० ६५२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy