________________
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम्
१६१ सत्त य चेव सहस्सा, बावीसा जोअणाई बोधव्वा । मज्झेण य विक्खंभो, साहीओ रुअगसेलस्स ॥५४॥ चत्तारि सहस्साइं, चउवीसा जोअणाई बोधव्वा । सिहरतले विक्खंभो, रुअगस्स उ पव्वयस्स भवे ॥५५॥ [ ]
व्या० रुचकरवरद्वीपस्य मध्ये नगोत्तमो रुचकनामा पर्वतः प्राकारसदृशरूपो रुचकद्वीपं 5 विभजमानो वर्त्तत इति गाथार्थः । रुचकस्य चतुरशीतिसहस्राणि उद्वेधः उच्चत्वम्, एकं सहस्रं धरणीतलमधः समवगाढ इति गाथार्थः । दश सहस्राणि द्वाविंशतिः योजनानि रुचकरवरशैलस्य मूले विष्कम्भस्साधिक [इति गाथार्थः] । सप्त सहस्राणि द्वाविंशत्यधिकानि मध्ये विष्कम्भः साधिको रुचकशैल इति गाथार्थः । चत्वारि सहस्राणि चतुर्विंशतिश्च योजनानाम्, एतत्प्रमाणः शिखरतले विष्कम्भो रुचक पर्वतस्य भवति [इति गाथार्थः] । 10 मध्यविस्तारान्त्यविस्तारप्रतिपादकं गाथाद्वयं परमगुरुभिः श्रीमदभयदेवसूरिभिवृत्तिकृद्भिर्न लिखितम्, संस्कृतपाठेनैव तत्प्रमाणस्योक्तत्वात् ॥५१-५५॥ [पृ०२८३] सिज्जायरपिंडे १ या, चाउज्जामे २ अ पुरिसजिढे ३ अ । किइकम्मस्स य करणे ४, चत्तारि अवट्ठिआ कप्पा ॥५६॥
[बृहत्कल्पभा० ६३६१, पञ्चाशक० १७।१०, प्रवचनसारो० ६५०] 15 व्या० चत्वारोऽवस्थितकल्पा भवन्ति, इह कल्पः साधुसमाचारः, मध्यमजिनसाधूनामपि चतुर्षु स्थानेषु सदैवावस्थितत्वेन षट्सु च स्थानेषु कादाचित्कावस्थानेन स्थितोऽस्थितश्च द्विधा कल्पः सम्भवति । तत्र तेषां स्थितकल्पस्तावदुच्यते- शय्यातरपिण्डे, तथा चतुर्णा यामानां व्रतानां समाहारश्चतुर्यामम् तदेव चातुर्यामम्, तत्र, तथा पुरुष एव ज्येष्ठो रत्नाधिकः पुरुषज्येष्ठः, तत्र, तथा कृतिकर्मणो वन्दनकस्य करणे विधाने स्थितोऽवस्थित: कल्पो मर्यादा मध्यमानां 20 मध्यमद्वाविंशतिजिनसाधूनां महाविदेहसाधूनां च, तदेवमेतानि चत्वार्यपि स्थानानि सर्वेषामपि साधूनां नित्यमवस्थितानीति स्थितकल्पः ॥५६।।
आचेलुक्कु १ देसिअ २, सप्पडिक्कमणे ३ अ रायपिंडे ४ अ । मासं ५ पज्जोसवणा ६, छप्पे अणवट्ठिआ कप्पा ॥५७॥ [बृहत्कल्पभा० ६३६२]
व्या० आचेलक्ये औद्देशिके प्रतिक्रमणे राजपिण्डे मासकल्पे पर्युषणाकल्पे च 25 सततसेवनीयत्वाभावाद् मध्यमजिनसाधूनामस्थितकल्पो ज्ञातव्यः । ते हि एतानि स्थानानि कदाचिदेव पालयन्ति, तत्राचेलस्य भेदद्वयमाहुः१ तुला- प्रवचनसारोद्धारवृत्तौ ।। २. तुलनार्थं प्रवचनसारोद्धारस्य ६५१ तम्या गाथाया वृत्तिः विलोकनीया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org