________________
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम् तैरुक्तं त्यज महापापम्, बहूक्तोऽपि पूर्वं मात्रा व्युद्ग्राहितत्वेन न मानितं तद्वचनम् । एवं यः कुप्रवचनव्युद्ग्राहितः स स्वं पण्डितम्मन्यो न मन्यते किमपीत्यर्थः ॥
पुक्खरवरदीवटुं, परिक्खिवइ माणुसुत्तरो सेलो । पायारसरिसरूवो, विभयंतो माणुसं लोगं ॥४१॥ [द्वीपसागरप्रज्ञप्तिसं० १]
व्या० पुष्करैः पौर्वरः प्रधान: पुष्करवरः, स चासौ द्वीपश्च पुष्करवरद्वीपः, तस्यार्द्धं 5 पुष्करवरद्वीपार्द्धम्, परिक्षिपति मानुषोत्तरः शैलः, मानुषस्य मानुषक्षेत्रस्य सीमाकारितया उत्तरः परो मानुषोत्तरः प्राकारसदृशरूपो मनुष्यलोकं विभजन् वर्त्तत इति शेषः ॥४१।। सम्प्रत्यस्योच्छ्रयादिपरिमाणमाह
सत्तरस एगवीसाइं, जोअणसयाई सो समुव्विद्धो । चत्तारि अ तीसाइं, मूले कोसं च ओगाढो ॥४२॥ [द्वीपसागरप्रज्ञप्तिसं० २] 10
व्या० सप्तदश योजनशतानि एकविंशत्यधिकानि [१७२१] समुद्विद्धः समुच्छ्रितः, चत्वारि योजनशतानि त्रिंशदधिकानि क्रोशं चैकं मूले अवगाढः अधो भूमौ निमग्नः ४३० क्रो०१ ॥४२॥
दस बावीसाइ अहे, विच्छिण्णो होइ जोअणसयाई । सत्त य तेवीसाइं, विच्छिण्णो होइ मज्झम्मि ॥४३॥ [द्वीपसागरप्रज्ञप्तिसं० ३] 15
व्या० दश योजनशतानि द्वाविंशत्यधिकानि १०२२ अधो भूतले विस्तीर्णः, सप्त योजनशतानि त्रयोविंशत्यधिकानि ७२३ विस्तीर्णो मध्यभागे ॥४३।।
चत्तारि अ चउवीसे, वित्थारो होइ उवरि सेलस्स । अड्डाइज्जे दीवे, दो अ समुद्दे अणुपरीई ॥४४॥ [द्वीपसागरप्र० ४]
व्या० चत्वारि योजनशतानि चतुर्विंशत्यधिकानि ४२४ उपरि विस्तीर्ण: शेषं सुगमम् 20 ॥४४॥ द्वीपनामान्यमूनि
जंबुद्दीवो १, धायइ २, पुक्खरदीवो अ ३ वारुणिवरो ४ अ ।
खीरवरो वि अ दीवो ५, घयवरदीवो ६ अ खोअवरो ७ ॥४५॥ [पृ०२८२] नंदीसरो ८ अ अरुणो ९, अरुणोववाओ १० अ कुंडलवरो ११ अ । तह संख १२ रुअग १३ भुअवर १४, कुस १५ कुंचवरो १६ तओ दीवो ॥४६॥ 25
[बृहत्सङ्ग्रहणी ८२-८३] व्या० पूर्वं जम्बूद्वीप: १, धातकीखण्ड: २, पुष्करवरद्वीप: ३, च पुनर्वारुणीवरः ४, क्षीरवरः अपि च द्वीपः ५, घृतवरद्वीपश्च ६, क्षोदवरः ७। नन्दीश्वरश्च ८, अरुण: ९, अरुणोपपातः १०, कुण्डलवरः ११, तह शखः १२, रुचकः १३, भुजवरः १४, कुशः १५, १. इक्षुवर:- बृहत्सङ्ग्रहणीवृत्तौ । २. भुअगवरः-बृहत्संग्रहणीवृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org