________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
अतवो न होइ जोगो, न य फलए इच्छिअं फलं विज्जा ।
अवि फलति विउलमगुणं, साहणहीणा जहा विजा ||३७|| [बृहत्कल्पभा० ५२०६] व्या० अतपाः तपसा विहीनो योगः श्रुतस्योद्देशनादिव्यापारो न भवति, न च तपसा विना गृह्यमाणा विद्या श्रुतज्ञानरूपा ईप्सितं मनोऽभिप्रेतं फलं फलति, अपीत्यभ्युच्चये, प्रत्युत 5 विपुलमगुणमनर्थं फलति, यथा साधनहीना विद्या, यस्याः प्रज्ञप्तिप्रभृतिकाया विद्याया उपवासादिको यः साधनोपचारः सा तमन्तरेण गृह्यमाणेति भावः ||३७||
10
१५८
20
अथ अव्यवशमितप्राभृतं व्याचष्टे
अप्पे व पारमाणिं, अवराहे वयड़ खामिअं तं च ।
बहुसो उदीरयंतो, अविओसिअपाहुडो स खलु ||३८|| [बृहत्कल्पभा० ५२०७] व्या- अल्पेऽपि परुषभाषणादावपराधे पारमाणिं परमं क्रोधसमुद्घातं यो व्रजति, तच्च अपराधजातं क्षामितमपि यो बहुश उदीरयति, स खल्वव्यवशमितप्राभृत उच्यते ॥ ३८ ॥ अस्य वाचने दोषानाह
दुविहो उ परिच्चाओ, इह चोयण कलह देवयाछलणं ।
परलोगम्मि अ अफलं, खित्तंमि व ऊसरे बीयं ||३९|| [बृहत्कल्पभा० ५२०८ ] 15 व्या० दुर्विनीतादेरपात्रस्य वाचनादाने द्विविधः परित्यागः इह-परलोकभेदाद् भवति । तत्रेहलोकपरित्यागो नाम स यदि स्मारणादिना प्रेर्यते तदा कलहं करोति, अपात्रवाचनेन च प्रमत्तं प्रान्तदेवता छलयेत्, परलोके तु परित्यागस्तस्य श्रुतदानमफलं सुगतिबोधिलाभादिकं पारत्रिकं फलं न प्रापयति, ऊषर इव क्षेत्रे बीजमुप्तं यथा निष्फलं भवति ॥ ३९ ॥ [पृ०२८१] पुव्वं वुग्गाहिआ केइ, बाला पंडियमाणिणो ।
नेच्छति कारणं सोउं, दीवजाए जहा नरे ||४०|| [बृहत्कल्पभा० ५२२४] व्या० पूर्वं व्युद्ग्राहिताः केचिन्नराः पण्डितमानिनो नेच्छन्ति कारणं किञ्चिच्छ्रोतुं द्वीपजातो यथा नर इति गाथार्थः ॥४०॥
द्वीपजातो नरो यथा - एको वणिक्, तस्य भार्या अतीवेष्टा, तेन पोतव्यवहारे गन्तुकामेन साऽप्रच्छि, तयोक्तमहमपि सहागच्छामि, तेन सा सहानीता, सा च गुर्विणी, समुद्रमध्ये विनष्टं 25 यानपात्रम्, फलकं विलग्ना अन्तरद्वीपे प्राप्ता तत्रैव प्रसूता दारकम् । स वणिग् मृतस्समुद्रे । सा च यौवनप्राप्तं स्वपुत्रमेव सम्प्रलग्ना, तया च स व्युद्ग्राहितः, यदुत यदा मानुषमीक्षेथास्तदा नश्येः, ते मनुष्यरूपेण हि राक्षसा इति । अन्यदा दुर्वातभग्नपोताः केचन वणिजस्समागताः, स तान् दृष्ट्वा नश्यति, तैर्ज्ञातम् अयं व्युद्ग्राहितः केनापि, कथमपि पृष्टस्तेन सर्वं प्रत्यादि । १. किंची - बृहत्कल्पभाष्ये ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org