________________
१५७
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम् भवतः, यथा-गुर्विणी सगर्भा, सह बालेन स्तनपायिना वत्सेन वर्त्तत इति सबालवत्सा। एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः । दोषा अप्यत्र पूर्ववद्वाच्याः ॥३२-३३।।
“पव्वाविओ सिय त्ति उ, सेसं पणगं अणायरणजोग्गो ।
अहवा समायरंते, पुरिमपदऽणिवारिता दोसा ॥५१९०॥
स पण्डकः स्यात् कदाचिदनाभोगादिना प्रव्राजितो भवेत्, इतिशब्दः स्वरूपपरामर्शार्थः। 5 एवं प्रवाजितोऽपि यदि पश्चाद् ज्ञातस्तदा सेसं पणगं ति विभक्तिव्यत्ययात् शेषपञ्चकस्य मुण्डापनादिलक्षणस्यानाचरणयोग्यः, न तद् आचरणीयमिति भावः । अथ लोभाद्यभिभूततया तदपि समाचरति तत: पूर्वस्मिन् प्रव्राजनाख्ये पदे ये प्रवचनापयशःप्रवादादयो दोषा उक्तास्ते अनिवारिताः, तदवस्था एव मन्तव्या इति भावः ।" इति बृहत्कल्पभाष्यस्य क्षेमकीर्तिसूरिविरचितायां टीकायाम् ॥
10 [पृ०२८०] इहरह वि ताव थब्भइ, अविणीओ लंभिओ किमु सुएणं ।
मा णट्ठो नासिहिई, खए व खारावसेगो उ ॥३४॥ [बृहत्कल्पभा० ५२०१] व्या० इतरथाऽपि श्रुतप्रदानमन्तरेणापि तावदविनीतः स्तभ्यते स्तब्धो भवति, किं पुनः श्रुतेन लम्भितस्सन् ?, महिमानमिति शेषः । अतः स्वयं नष्टोऽसावन्यानपि मा नाशयिष्यति, क्षते वा क्षारावसेको मा भूदिति कृत्वा नासौ वाचनीयः ॥३४॥ अपिच
15 गोजूहस्स पडागा, सयं पलायस्स वड्डइ अ वेगं । दोसोदए य समणं, न होइ न नियाणतुल्लं वा ॥३५॥ [बृहत्कल्पभा० ५२०२]
व्या० इह गोपालको गवामग्रतो भूत्वा यदा पताकां दर्शयति तदा ताः शीघ्रतरं गच्छन्तीति श्रुतिः, ततो गोयूथस्य स्वयं प्रयातस्य यथा पताका वेगं वर्द्धयति, तथा दुर्विनीतस्यापि श्रुतप्रदानमधिकतरं दुर्विनयं वर्द्धयति । यथा दोषाणां रोगाणामुदये चः समुच्चये, शमनम् 20 औषधं न दीयते, यतश्च निदानादुत्थितो व्याधिस्तत्तुल्यं तत्सदृशमेव वस्तु रोगवृद्धिभयान्न दीयते । यद्वा दोषोदये दीयमानं शमनं न न निदानतुल्यं भवति, किन्तु भवत्येव, ततो न दातव्यम् । एवमस्यापि दुर्विनयदोषभरे वर्तमानस्य श्रुतौषधमहितमिति कृत्वा न दातव्यम् ॥३५।।
विणयाहीआ विजा, देई फलं इह परे अ लोगम्मि । न फलंतऽविणयगहिआ, सस्साणि व तोयहीणाई ॥३६॥ [बृहत्कल्पभा० ५२०३] 25
व्या० विनयेनाधीता विद्या इह परत्र च लोके फलं ददति जनपूजनीयता-यशःप्रवाद-लाभादिकमैहिकं निःश्रेयसादिकं चामुष्मिकं फलं ढोकयन्तीति । विनयहीनास्तु ता अधीता न फलन्ति, सस्यानीव तोयहीनानि यथा जलमन्तरेण धान्यानि न फलन्ति ॥३६॥ १. देति- बृहत्कल्पभाष्ये ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org