________________
१५६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे षट्कायविराधना स्वाध्यायादिहानिश्च । तथा क्षत्रखनन-मार्गपातनादिचौर्यनिरतः स्तेनः, सोऽपि गच्छस्य वध-बन्धन-ताडनादिनानाविधानर्थनिबन्धनतया दीक्षाऽनर्ह एव । तथा श्रीगृहा-ऽन्तःपुरनपतिशरीर-तत्पुत्रादिद्रोहविधायको राजापकारी, चः समुच्चये, तद्दीक्षणे रुष्टराजकृता मारणदेशनिस्सारणादयो दोषा भवन्ति । तथा यक्षादिभिः प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः, सोऽपि न दीक्षाऽर्हः, यक्षादिभ्यः प्रत्यवायसम्भवात् स्वाध्याय-ध्यान-संयमादिहानिप्रसङ्गाच्च । तथा न विद्यते दर्शनं दृष्टिरस्येत्यदर्शनोऽन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः, न विद्यते दर्शनं सम्यक्त्वमस्येति व्युत्पत्तेः, अयं च दीक्षितस्सन् दृग्विकलतया यत्र तत्र वा सञ्चरन् षट्कायान् विराधयेत्, विषमकीलकण्टकादिषु च प्रपतेत्, स्त्यानर्द्धिस्तु प्रद्विष्टो गृहिणां साधूनां
च मारणादि कुर्यात्। तथा गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतो ऋणादिव्यतिकरे 10 वाऽवरुद्धो दास उच्यते, तस्यापि दीक्षादाने तत्स्वामिकृता उत्प्रव्राजनादयो दोषाः । तथा दुष्टो
द्विधा- कषायदुष्टो विषयदुष्टश्च, तत्र गुरुगृहीतसर्षपभर्जिकाव्यतिकराभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः, अतीव परयोषिदादिषु गृद्धो विषयदुष्टः, सोऽपि दीक्षाऽनर्होऽतिसक्लिष्टाध्यवसायत्वात्। तथा स्नेहादज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमना मूढः, सोऽपि
ज्ञानविवेकमूलायामार्हतदीक्षायां नाधिक्रियते, अज्ञानत्वात् कृत्यादिविवेकविकलत्वात् च । तथा 15 यो राज-व्यवहारिकादीनां हिरण्यादिकं धारयति स ऋणातस्तस्य दीक्षादाने राजादिकृता
ग्रहणाकर्षणकदर्थनादयो दोषाः । तथा जाति-कर्म-शरीरादिभिर्दूषितो जुङ्गितस्तत्र मातङ्गकोलिक-वरुड-सूचिक-छिम्पादयोऽस्पृश्या जातिजुङ्गिताः स्पृश्या अपि स्त्री-मयूर-कुर्कुटशुकादिपोषका वंश-वरत्रारोहण-नखप्रक्षालन-सौकरिकत्व-वागुरिकत्वादिनिन्दितकर्मकारिण:
कर्मजुङ्गिताः, कर-चरण-कर्णादिवर्जिताः कुब्ज-वामनक-काणकप्रभृतयः शरीरजुङ्गितास्तेऽपि न 20 दीक्षार्हाः, लोकेऽवर्णवादसम्भवात् । तथाऽर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहम् इत्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धकः, सोऽपि न दीक्षाऽर्हः कलहादिदोषसम्भवात् । तथा रूप्यकादिमात्रया वृत्त्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः, यस्यासौ वृत्तिं गृह्णाति स दीक्ष्यमाणे
तस्मिन् महतीमप्रीतिमादधाति । तथा शैक्षस्य दीक्षितुमिष्टस्य निस्फेटिका अपहरणं शैक्षनिस्फेटिका, 25 तद्योगाद्यो मातापित्रादिभिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिस्फेटिका, सोऽपि न
दीक्षोचितः, मातापित्रादीनां कर्मबन्धसम्भवाददत्तादानादिदोषप्रसङ्गाच्च। इत्येतेऽष्टादश पुरुषस्य पुरुषाकारवतो दीक्षानर्हभेदा इति । येऽष्टादश भेदाः पुरुषेष्वदीक्षणार्हा उक्तास्तथा तेनैव प्रकारेण स्त्रिया अपि त एव भेदा अष्टादश विज्ञेयाः । अयमत्राशयः-यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि व्रतायोग्या बालादयोऽष्टादश भेदास्तावन्त एव, अन्यौ च द्वाविमावधिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org