________________
त्रिस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम्
१५५ संयमविराधनादयो दोषाः, स हि अयोगोलकसमानो यतो यतः स्पन्दते ततस्ततोऽज्ञानित्वात् षड्जीवनिकायवधाय भवति, तथा निरनुकम्पा अमी श्रमणा यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिन्दन्तीति जननिन्दा, तत्परिचेष्टायां च मातृजनोचितायां क्रियमाणायां स्वाध्यायपलिमन्थः स्यादिति । तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अन्ये त्वाहुःअर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते, तस्यापि च समाधानं कर्तुं 5 दुस्सहम्, यदुक्तम्
उच्चासणं समीहइ, विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खिअव्वो, जइ जाओ वासुदेवेण ॥१॥ [ ] इत्यादि ।
इदं च वर्षशतायुष्कं प्रति द्रष्टव्यम्, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद्दशधा विभज्याऽष्टमनवमदशमभागेषु वर्तमानस्य वृद्धत्वमवसेयम् । तथा स्त्रीपुंसोभयाभिलाषी पुरुषाकृतिः 10 पुरुषो नपुंसकः, सोऽपि बहुदोषकारित्वाद्दीक्षितुमनुचितः । तथा स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्टवा शब्दं वा मन्मथोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं यो न शक्नोति, स पुरुषाकृतिः पुरुषः क्लीबः, सोऽप्युत्कटवेदोदयाद्बलात्कारेणालिङ्गनादि कुर्यात्तत उड्डाहादिकारित्वाद्दीक्षाया अनोऽत एव । तथा जड्डस्त्रिविधो-भाषया शरीरेण करणेन च, भाषाजड्डः पुनस्त्रिविधो-जलमूको मन्मनमूक एलाकामूकश्च, तत्र जलमग्न इव बुडबुडायमानो 15 यो वक्ति स जलमूकः, यस्य तु वदतः खञ्च्यमानमिव वचनं स्खलति स मन्मनमूकः, यश्चैलक इवाव्यक्तमूकतया शब्दमात्रमेव करोति स एलाकामूकः । तथा य: पथि भिक्षाऽटने वन्दनादिषु चाऽतीव स्थूलतया अशक्तो भवति स शरीरजड्डः, करणं क्रिया, तस्यां जड्ड: समिति-गुप्तिप्रतिक्रमण-करणजड्डः, प्रत्युपेक्षणा-संयमपालनादिक्रियां पुन: पुनरुपदिश्यमानामप्यतीव जड्डतया यो ग्रहीतुं न शक्नोति स करणजड्ड इत्यर्थः । तत्र भाषाजड्डस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न 20 दीक्ष्यते, शरीरजड्डस्तु मार्गगमन-भक्त-पानाद्यानयनादिष्वसमर्थो भवति, तथाऽतिजड्डस्य प्रस्वेदेन कक्षादिषु कुथितत्वं भवति, तेषां जलेन क्षालनादिषु क्रियमाणेषु कीटिकादीनां प्राणिनां प्लावना सम्पद्यते, ततस्संयमविराधना, तथा लोको निन्दा करोति-असौ बहुभक्षकः, कथमन्यथा एवंविधं स्थूलत्वमेतस्य मुण्डितकस्येति, तथा तस्योर्ध्वश्वासो भवति अपरिक्रमश्च सर्प-जल-ज्वलनादिषु समीपमागच्छत्सु स भवति, ततोऽसौ न दीक्षणीयः । तथा करणजड्डोऽपि समिति-गुप्त्यादीनां 25 शिक्ष्यमाणोऽप्यग्राहकत्वान्न दीक्षणीय इति । तथा वाहिए त्ति भगन्दरा-ऽतिसार-कुष्ठप्लीहकार्श (W)-कास-ज्वरादिरोगग्रस्तो व्याधितः, सोऽपि न दीक्षार्हस्तच्चिकित्सने १. मन्मनोल्ला' प्रवचनसारोद्धारवृत्तौ ॥ २. तुलना-पारिष्ठापनिकानिर्युक्तौ गा० २०, आवश्यकहारिभद्रीवृत्तिः, निशीथभा. ३६२५ तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org