________________
१५४ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे उच्चार-प्रसवणात्मकस्तेन क्रियते, पुरुषमध्ये भीरुः सभयः शङ्कमान आस्ते, महिलासु सङ्करस्संमीलनशीलो निःशङ्को निर्भयस्तिष्ठति, स्त्रीणां यत् कर्म कंडन-दलन-पचनपरिवेषणोदकाहरण-प्रमार्जनादिकम्, तत् स्वयमेव करोतीति, इति महाग्रन्थान्महिलास्वभावत्वं लिखितम् । तथा स्वर-वर्णभेदः, स्वरभेदो नाम पुरुषस्य स्त्रियाश्च स्वरात् विलक्षणस्तस्य 5 स्वरो भवति, वर्ण: शरीरसम्बन्धी, उपलक्षणत्वाद् गन्ध-रस-स्पर्शाश्च स्त्री-पुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः । मेण्द्रं पुरुषचिह्नं महद्भवति, मृद्वी च वाणी ललनाया इव सञ्जायते, तथा स्त्रिया इव सशब्दं मूत्रं जायते, फेनरहितं च तद्भवति, एतानि षट् पण्डकलक्षणानि भवन्ति ॥३०॥
[पृ०२७९] जिणवयणे पडिकुटुं, जो पव्वावेइ लोभदोसेणं । 10 चरणट्ठिओ तवस्सी, लोवेइ तमेव उ चरित्तं ॥३१॥ [निशीथभा० ३७४५]
__ व्या० जिनवचनप्रतिक्रुष्टं प्रतिषिद्धं यः प्रव्राजयेत्, पूर्वोक्तस्वरूपं पुरुषमिति शेषः, लोभदोषेण चरणस्थितस्तपस्वी, स लोपयति तदेव जिनवचनं तु पुनश्चारित्रम् ॥३१॥
बाले वुड्ढे नपुंसे अ, जड्डे कीवे अ वाहिए ।
तेणे रायावगारी अ, उम्मत्ते अ अदंसणे ॥३२॥ ___15 दासे दुढे अ मूढे अ, अणत्ते जुगिए इअ ।।
ओबद्धए अ भयए, सेहनिप्फेडिआ इअ ॥३३॥
[पञ्चकल्पमहाभाष्य० गा० २००-२०१, प्रवचनसारो० ७९०-७९१] गुठ्विणी बालवच्छा य, पव्वावेउं न कप्पइ। गाथार्द्धम् ।। [निशीथभा० ३५०६-३५०८]
व्या० जन्मत आरभ्य अष्टौ वर्षाणि यावद् बालोऽत्राभिधीयते, स किल गर्भस्थाने 20 नव मासान् सातिरेकान् गमयति, जातोऽप्यष्टौ वर्षाणि यावद्दीक्षां न प्रतिपद्यते, वर्षाष्टकादधो
वर्तमानस्य सर्वस्यापि तथास्वाभाव्याद्देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते । भगवद्वज्रस्वामिना व्यभिचार इति चेत्, तथाहि-भगवान् वज्रस्वामी पाण्मासिकोऽपि भावतः प्रतिपन्नसर्वसावधविरतिः श्रूयते, तथा च सूत्रम्- छम्मासिअं
छसु जयं, माऊय समन्निअं वंदे [आव०नि० ७६४] । सत्यमेतत्, किन्त्वियं शैशवेऽपि 25 भगवद्वज्रस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता कादाचित्कीति न तया व्यभिचारः । ततो
वर्षाष्टकादधः परिभवक्षेत्रत्वाच्चरणपरिणामाभावाच्च न दीक्ष्यते इति । अन्यच्च- बालदीक्षणे १. जिणवयणपडिकुडे-निशीथभाष्ये ॥ २. एतत्स्थाने 'जे अट्ठारस भेया पुरिसस्स तहित्थियाए ते चेव । गुब्विणी सबालवच्छा दुन्नि इमे हुँति अन्ने वि ॥७९२।।' इति प्रवचनसारोद्धारे गाथा वर्तते ॥ ३. तुलना-धर्मबिन्दुवृत्ति: ५।३३ । ४. 'तुंबवणसन्निवेसाओ निग्गय पिउसगासमल्लीणं ।' इति पूर्वार्धम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org