________________
१५३
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम् आसयपोसयसेवी, केवि मणूसा दुवेअगा होति । तेसिं लिंगविवेगो, बितियपयं रायपव्वइते ॥२८॥ [बृहत्कल्पभा० ५०२६]
व्या० आस्यं मुखम्, आस्यमेवास्यकम्, पोसकः पायुः, आस्यक-पोसकाभ्यां सेवितुं शीलमेषाम् इत्यास्यकपोसकसेविनः केचित् पुरुषाः साधवो द्विवेदकाः स्त्रीपुरुषवेदयुक्ता भवन्ति, नपुंसकवेदिन इत्यर्थः, तेषां लिङ्गविवेकः कर्त्तव्यः । द्वितीयपदमत्र भवति- यो 5 राजा प्रव्रजितः, तस्याऽऽस्यक-पोसकसेविनोऽपि लिङ्गं नापह्रियते, परं यतनया स परित्यज्यते ॥२८॥ [पृ०२७८] उक्कोसं बहुसो वा, पदुट्ठचित्तो व तेणियं कुणइ ।
पहरइ य जो सपक्खे, निरवेक्खो घोरपरिणामो ॥२९॥ व्या० प्रदुष्टचित्तः, प्रदुष्टं द्वेषयुक्तं चित्तं यस्य स प्रदुष्टचित्तः बहुशोऽनेकवारं तेणियं 10 ति स्तैन्यं चौर्यं करोति उत्कृष्टं यथा स्यात्, कोऽर्थः? साधर्मिकाणां साधूनां सत्कस्योत्कृष्टोपधेः शिष्यादेर्वाऽथवा अन्यधार्मिकाः शाक्यादयो गृहस्था वा, तेषां सत्कस्योपध्यादेश्चौर्यं करोति । च पुनर्यः स्वपक्षे परपक्षे वा निरपेक्षो घोरपरिणाम: प्रहरति, कोऽर्थः? यष्टि-मुष्टिलकुटादिभिर्मरणादिनिरपेक्ष आत्मनः स्वस्य परस्यात्मनोऽन्यस्य प्रहरति, एतादृशो यः सोऽनवस्थाप्यः। आसेविताचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु 15 नावस्थाप्यते । अनवस्थाप्यं तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्ययमुच्यते ॥२९॥
महिलासहावो सरवण्णभेओ, मेंढं महंतं मउई अ वाया । ससद्दगं मुत्तमफेणगं च, एआणि छप्पंडगलक्खणाणि ॥३०॥
[बृहत्कल्पभा० ५१४४, निशीथभा० ३५६७] व्या० महिलास्वभाव इति महिलास्वभावत्वं पण्डकस्यैकं लक्षणम्, गतिः स्त्रीवद् मन्दा 20 च सविभ्रमा भवति, पार्श्वतः पृष्ठतश्च प्रत्यवलोकितं कुर्वन् गच्छति, शरीरस्य च त्वक् मृद्वी भवति, शीतलगात्रता चाङ्गोपाङ्गानां शीतलः स्पर्शो भवति, यथा स्त्री तथा शनैस्सविकारं गच्छति, स्त्रीवद्भाषां भाषते, तथा वस्त्रं यथा स्त्री तथा परिधत्ते शिरो वा वस्त्रेण स्थगयति, हस्तौ कपोलयोर्विन्यस्य जल्पति, अभीक्ष्णं च कटीभङ्गं करोति, पृष्ठं वस्त्रेण सुस्थगितं करोति, भाषमाणश्च सविभ्रम भ्रूयुगमुत्क्षिपति भूरोमाणि वा स्त्रीसदृशानि, स्त्रीवत् केशानामोटयति, 25 महिलानामलङ्कारानपिनाति, प्रच्छन्ने च प्रदेशे मजनानि स्नानादीनि करोति, प्रच्छन्नतरं नीहार
१. केवि पुरिसा-बृहत्कल्पभाष्ये ॥ २. प्रवचनसारोद्धार [७९४] गाथाया वृत्तावपि उद्धृतेयं गाथा व्याख्याता च ॥ ३. अत्र बृहत्कल्पभाष्यस्य ५१४४-५१४५-५१४६-५१४७ गाथानां टीकातः सम्पिण्ड्यार्थोऽत्र लिखितः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org