________________
5
१५२
अस्तङ्गतेऽपि कोऽप्यर्के सीव्यन् गुरुभिरौच्यत । उलूकाक्षोऽसि भिक्षो ! त्वं स रुष्टो गुरुमूचिवान् १२ ॥ तदेवं तावके द्वे अप्यक्षिणी उद्धराम्यहम् । अथासौ गुरुणा गाढं क्षमितोऽपि न शान्तवान् १३ ॥ ततो रजोधृतां लोहमयीमाकृष्य कीलिकाम् । रोषाध्मातः स दुष्टात्मा समुद्दधेऽक्षिणी गुरोः १४ ॥
एते चत्वारोऽपि साधवो दुष्टत्वाल्लिङ्गपाराञ्चिकाः । परपक्षकषायदुष्टस्तु राजवधक उदायिनृपमारकवत् । विषयदुष्टे चैवं भङ्गचतुष्टयम् - स्वलिङ्गी स्वलिङ्गिनीं साध्वीं सेवते १, स्वलिङ्गी गृहिलिङ्गिनीं स्त्रियम् २, स्वलिङ्गी अन्यलिङ्गिनीं परिव्राजिकादिकाम् ३, अन्यलिङ्गी 10 चान्यलिङ्गामिति शून्योऽयं भङ्गः । तत्राद्यो विषयदुष्ट:
पावाणं पावयरो, दिट्ठिsoभासे वि सो न कायव्वो ।
20
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
जो जिणमुदं समणिं, नमिऊण तमेव धरिसे ||१|| [बृहत्कल्पभा० ५००९ ]
द्वितीयो विषयदुष्टः बहुश: पौनःपुन्येन प्रकाशो लोकविदितो राजग्रमहिषीप्रतिसेवकः । अग्रमहिषीग्रहणादन्याऽपि या काचिदिष्टा राज्ञस्तत्सेवकस्य च चशब्दाद्युवराजसेनापत्याद्यग्र15 महिषीप्रतिसेवकश्च, द्वावप्येतौ लिङ्गपाराञ्चिकौ । तृतीयविषयदुष्टस्याप्यतिशयी लिङ्गं दद्यान्नान्यः, अनतिशय तु तस्य लिङ्गपाराञ्चिकमेव दत्त इत्यर्थः । अत्राह शिष्यः - सामान्यस्त्रीसेवकः साधुः किमपाराञ्चिकः?, उच्यते - बह्वपाया राजाद्यग्रमहिष्यः, तत्सेवने कुल-गण-सङ्घाचार्याणां प्रस्तारः संहाररूपो निर्विषयता वा स्यात्, इतरस्त्रीषु पुनर्व्रतभङ्ग एव दोषः, दोषवत एवैकस्यापाय इति तस्य मूलम् ॥२६॥
अवि केवलमुप्पाडे, ण य लिंगं देइ अणइसेसी से ।
"
देसवय दंसणं वा, गेह अणिच्छे पलायंति ||२७|| [बृहत्कल्पभा० ५०२४] व्या० अपिः सम्भावने, स चैतत् सम्भावयति - यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति, तथापि से तस्य स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति यः पुनरतिशयज्ञानी स जानातिन भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति, ततो लिङ्गं ददाति, इतरथा न ददाति । लिङ्गापहारे 25 पुनः क्रियमाणेऽयमुपदेशो दीयते - देशव्रतानि स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत् प्रतिपत्तुं न समर्थस्ततो दर्शनं सम्यक्त्वं गृहाण, अथैवमप्यनुनीयमानो लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते देशान्तरं गच्छन्ति ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org