________________
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम्
१५१
चकारात् परलिङ्गे च परपक्षे गृहस्थेऽन्यतीर्थिके वा । ततश्च स्वपक्ष-परपक्षाभ्यां कषायदुष्टे विषयदुष्टे च चत्वारो विकल्पा भङ्गा भवन्ति । तत्रैवं कषायदुष्टे भङ्गचतुष्टयम्- स्वपक्षकषायदुष्टः परपक्षकषायदुष्टश्चेत्येको भङ्गः, स्वपक्षकषायदुष्टो न परपक्षकषायदुष्ट इति द्वितीयः, न स्वपक्षकषायदुष्टः परपक्षकषायदुष्ट इति तृतीयः, उभाभ्यामपि न दुष्ट इति चतुर्थः शुद्धो भङ्गः। तत्र स्वपक्षकषायदृष्टे चत्वारि उदाहरणानि- सासवनाले मुहणंतए य सिहरिणी उलूगच्छी य। 5 [ ] सासवनाल त्ति सर्षपभर्जिका ।
साधुः कोऽपि गतो भिक्षाम्, लब्ध्वा सर्षपभर्जिकाम् । रुच्यां सुसंस्कृतां गृद्धोऽप्याचार्याणामढौकयत् १। भुक्ता सर्वाऽपि साऽऽचार्यैः साधुश्चाक्रोशयत् स तान् । ततस्तैः क्षमितोऽप्युच्चैरूचे भक्ष्यामि ते रदान् २॥ गुरुणाऽचिन्ति- मां सैष मा वधीदसमाधिना । स्वगणेष्वन्यमथाचार्यं कृत्वाऽगात् स गणान्तरे ३ ॥ मृतश्चानशनात्तत्र, सोऽथ दुष्टोऽवदन्मुनीन् । गुरवः क्वागमन्नूचे तैः न विद्मोऽन्यतोऽथ सः ४॥ ज्ञात्वा तत्रागमत्तांश्चापृच्छत् साधून गुरुः क्व मे ? । तैरूचेऽद्य मृतस्त्यक्तः श्मशानेऽस्ति च तद्वपुः ५।। गत्वा तत्राथ तद्दन्तान् सम्भक्ति च प्रवक्ति च । खादिष्यसि पुनः किं मे रुच्यां सर्षपभर्जिकाम् ? ६॥ अन्यः कोऽपि मुनिर्लब्ध्वा मुखानन्तकमुज्ज्वलम् । गुरोरढौकयत् तच्चाददे तैः सोऽपि रुष्टवान् ७॥ तदथाऽर्पयतोऽप्यस्य नाददे किं पुनर्निशि । तल्लास्यसीति जल्पन् स गुरुं गाढं गलेऽग्रहीत् ८॥ स मूढो गुरुरप्येनं ततो द्वावपि तौ मृतौ । साधुना केनचित् क्वापि लब्धा शिखरिणी शुभा ९।। तयाऽभिमन्त्रितस्तेन गुरुस्तां निखिला पपौ । तं सोऽथाऽश्मानमुद्गीर्य हिंसन्नन्यैर्यवार्यत १०॥ तथाप्यनुपशान्ते च तस्मिन्ननशनं गुरुः । स्वगच्छ एव विदधे नान्यं गच्छं जगाम सः ११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org