SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ १५० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [पृ०२७७] पडिसेवणपारंचिअ, तिविहो सो होइ आणुपुव्वीए । दुढे अ पमत्ते आ, नेअव्वो अन्नमन्ने अ ॥२१॥ [बृहत्कल्पभा० ४९८५] व्या० प्रतिसेवनापाराञ्चिकः स इति पूर्वन्यस्तस्त्रिविधस्त्रिप्रकारः आनुपूर्व्या सूत्रोक्तपरिपाट्या भवति । तद्यथा- दुष्टः पाराञ्चिकः प्रमत्तः पाराञ्चिकोऽन्योन्यं च कुर्वाण: 5 पाराञ्चिको ज्ञातव्यः ॥२१॥ तत्र दुष्टं तावदाह दुविहो अ होइ दुट्ठो, कसायदुट्ठो अ विसयदुट्ठो अ । दुविहो कसायदुट्ठो, सपक्ख परपक्ख चउभंगो ॥२२॥ [बृहत्कल्पभा० ४९८६] व्या० द्विविधश्च दुष्टः भवति- कषायदुष्टो विषयदुष्टश्च । तत्र कषायदुष्टो द्विविध:स्वपक्षदुष्टः परपक्षदुष्टश्च । अत्र चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात्, तद्यथा- स्वपक्षः स्वपक्षे 10 दुष्टः१, स्वपक्षः परपक्षे दुष्टः२, परपक्षः स्वपक्षे दुष्टः३, परपक्षः परपक्षे दुष्टः ४ ॥२२॥ लिंगेण लिंगिणीए, संपत्तिं जो णिगच्छई पावो । सव्वजिणाणऽज्जाओ, संघो आसाइओ तेण ॥२३॥ [बृहत्कल्पभा० ५००८] व्या० लिङ्गेन रजोहरणादिना युक्तो लिङ्गिन्याः संयत्याः संपत्तिं यदि अधमतया कथमपि कश्चित् पापो नियच्छति प्राप्नोति, तर्हि तेन पापेन सर्वजिनानां आर्याः संयत्यः सङ्घश्च 15 भगवानाशातितो मन्तव्यः ॥२३।। पावाणं पावयरो, दिट्टिब्भासे वि सो न कप्पति हु ।। जो जिणपंगवमुदं, नमिऊण तमेव धरिसेड़ ॥२४॥ बृहत्कल्पभा० ५००९] व्या० पापानां सर्वेषामपि स पापतरः, अत एव लोचनस्याभ्यासेऽपि समीपेऽपि कर्तुं स न वर्त्तते न कल्पते यो जिनपुङ्गवमुद्रां श्रमणीं नत्वा तामेव धर्षयति ॥२४॥ 20 संसारमणवयग्गं, जाइजरामरणवेअणापउरं । पावमलपडलच्छन्ना, भमंति मुद्दाधरिसणेणं ॥२५॥ [बृहत्कल्पभा० ५०१०] व्या० संसारम् अनवदग्रम् अपर्यन्तं जातिजरामरणवेदनाप्रचुरं पापमलपटलच्छन्ना मुद्राधर्षणेन परिभ्रमन्ति ॥२५॥ प्रतिसेवनापाराञ्चिकमाह जो अ सलिंगे दुट्ठो, कसायविसएहिं रायवहगो अ । 25 रायग्गमहिसिपडिसेवओ अ बहुसो पयासो अ ॥२६॥ [ ] व्या० इह प्रतिसेवनापाराञ्चिकस्त्रिधा-दुष्टो मूढोऽन्योन्यं कुर्वाणश्च । यश्च दुष्टः स द्विधाकषायतो विषयतश्च, पुनरेकैको द्विधा सलिंगे त्ति समानलिङ्गे स्वपक्षे श्रमण-श्रमणीरूपे, १. जइ- बृहत्कल्पभाष्ये ॥ २. वदृति- बृहत्कल्पभाष्ये ॥ ३. एव दृष्टेः लो बृहत्कल्पवृत्तौ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy