________________
१४९
त्रिस्थानके चतुर्थोद्देशंटीकागतगाथाविवरणम् कोऽर्थः ? त्रिंशद्दिनप्रमाणमेव देयमेव, अत्रोद्घातो न कर्त्तव्यः, अयमेव लघुमास-गुरुमासयोर्विशेषः इति गाथार्थः ॥१५॥
आसायण पडिसेवी, दुविहो पारंचिओ समासेणं । एक्केक्कम्मि अ भयणा, सचरित्ते चेव अचरित्ते ॥१६॥ [बृहत्कल्पभा० ४९७२]
व्या० पाराञ्चिकः समासेन द्विविधः, तद्यथा- आशातनापाराञ्चिकः प्रतिसेविपाराञ्चिकश्च, 5 पुनरेकैकस्मिन् द्विविधा भजना कर्त्तव्या, कथम् ? इत्याह- द्वावप्येतौ सचारित्रिणौ वाऽचारित्रिणौ वा ॥१६॥ कथं पुनरेषा भजना ? इत्याह
सव्वचरित्तं भस्सइ, केण वि पडिसेविएण उ पएणं । कत्थइ चिट्ठइ देसो, परिणामवराहमासज्ज ॥१७॥ [बृहत्कल्पभा० ४९७३]
व्या० केनचिदपराधपदेन पाराञ्चिकापत्तियोग्येन प्रतिसेवितेन सर्वमपि चारित्रं भ्रश्यति, 10 कुत्रापि पुनश्चारित्रस्य देशोऽवतिष्ठते, कुतः? इत्याह- परिणामं तीव्र-मन्दादिरूपमपराधं चोत्कृष्टमध्यम-जघन्यरूपमासाद्य चारित्रं भवेद्वा न वा ॥१७।। इदमेव भावयति -
तुल्लम्मि वि अवराहे, परिणामवसेण होइ नाणत्तं ।। कत्थइ परिणामम्मि वि, तुल्ले अवराहनाणत्तं ॥१८॥ [बृहत्कल्पभा० ४९७४]
व्या० तुल्येऽप्यपराधे परिणामवशेन तीव्रमन्दाध्यवसायवैचित्र्यबलाच्चारित्रभ्रंशादौ नानात्वं 15 भवति, कुत्रचित् पुनः परिणामे तुल्येऽप्यपराधनानात्वं प्रतिसेवनावैचित्र्यं भवति ।।१८।।
अथाशातनापाराञ्चिकं व्याचिख्यासुराहतित्थयर पवयण सुए, आयरिए गणहरे महिड्डीए । एते आसायंते, पच्छित्ते मग्गणा होई ॥१९॥ [बृहत्कल्पभा० ४९७५]
व्या० तीर्थकरं प्रवचनं श्रुतम् आचार्यान् गणधरान् महर्द्धिकाँश्च, एतान् य आशातयति 20 तस्य प्रायश्चित्ते वक्ष्यमाणलक्षणा मार्गणा भवति ॥१९॥
पढमबितिएसु चरमं, सेसे एक्केक्क चउगुरू हति । सव्वे आसायंतो, पावति पारंचिअं ठाणं ॥२०॥ [बृहत्कल्पभा० ४९८३] गाथार्द्धम्।
व्या० अथ प्रथमस्तीर्थकरो द्वितीयः सङ्घस्तयोर्देशतस्सर्वतो वा आशातनायां पाराञ्चिकम्, शेषेषु श्रुतादिषु, एकैकस्मिन् देशत आशात्यमाने चतुर्गुरुकाः प्रायश्चित्तं भवति । अथ 25 सर्वतस्तानाशातयति ततस्तेष्वपि पाराञ्चिकं स्थानं प्राप्नोति । अत्र वृत्तिकृद्भिरन्त्यमेव पदद्वयं लिखितम्, परमर्थसङ्गतये मूलग्रन्थान्तरात् पदद्वयमाकृष्य पूर्णा गाथा लिखिता विवृता च ।।२०।। १. 'न्ति-बृहत्कल्पवृत्तौ ॥ २. "न्याशा' बृहत्कल्पवृत्तौ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org