________________
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम्
१४७ वक्ष्यमाणास्तान् साधुतः साधोः सकाशादुत्थितान् जानीहि, धात्रीत्वादीनां साधुभिरेव क्रियमाणत्वादिति । इयं च गाथा उद्गमदोषेभ्योऽग्रतो विलोक्यते, तथैव सुसङ्गतत्वादिति ॥११॥ [पृ०२७१] आहाकम्मनिमंतण, पडिसुणमाणे अइक्कमो होइ १ । पयभेआइ वइक्कमु २, गहिए तइए ३ अरो ४ गलिए ॥१२॥
[पिण्डनि० १८२, व्यवहारपीठिका ४३] व्या० आधाकर्मनिमन्त्रणे सति तदाधाकर्म प्रतिशृण्वति अभ्युपगच्छति अतिक्रमो भवति, स च पात्रोद्ग्रहणादारभ्य तावद्यावन्नाद्याप्युपयोगकरणानन्तरं ग्रहणाय प्रचलति १ । पदभेदादौ च पदस्य चरणस्य भेद उत्पाटनम्, तदादौ, आदिशब्दाद् गमने गृहप्रवेशने करोटिकोत्पाटने ग्रहणाय पात्रप्रसारणे च व्यतिक्रमो दोषः २। गृहीते त्वाधाकर्मणि तृतीयोऽतिचारलक्षणो दोषः, स च तावद्यावद्वसतावागत्य गुरुसमक्षमालोच्य स्वाध्यायं कृत्वा 10 गले तदाधाकर्म नाद्यापि प्रक्षिपति ३। गलिते त्वाधाकर्मणि इतरश्चतुर्थो दोषोऽनाचारलक्षणः ४ ॥१२॥
[पृ०२७१] साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभेषजेन विचिकित्सा प्रतिपाद्यते
भिक्खायरिआइ सुज्झइ, अइयारो को वि विअडणाए व । बीओ अ असमिओ मि त्ति कीस सहसा अगुत्तो वा ॥१३॥
__ [आव०नि० १४३९, पञ्चा० १६।१६] व्या० भिक्षाचर्यादिजः शुद्धयत्यतिचारः कश्चिद्विकटनयैव आलोचनयैवेत्यर्थः, आदिशब्दाद्विचारभूम्यादिगमनजो गृह्यते । इह चातिचार एव व्रणः, एवं सर्वत्र योज्यम् । बितिओ त्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौ हा !! असमितोऽस्मीति, किमिति 20 सहसा अगुप्तो वा ? मिथ्या दुष्कृतमिति चिकित्सेत्ययं गाथार्थः ॥१३॥ सद्दाइसु रागं दोसं च मणोगओ तइयगम्मि । गाथार्द्धम् ।
[आव०नि० १४४०, पञ्चा० १६।१७] व्या० शब्दादिषु इष्टानिष्टेषु विषयेषु रागं वा द्वेष वा मनोगतः, तदा तृतीयो व्रणः, स आलोचनेन प्रतिक्रमणेन च चिकित्स्यते । यद्यपि दशधा प्रायश्चित्तं वर्त्तते तथापि 25 त्रिस्थानकानुरोधात् त्रिधैवोक्तम्- आलोचनाहँ १ प्रतिक्रमणार्ह २ तभयाहमिति गाथार्थः ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org