SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ १४६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे द्रष्टव्यम्, तथाविवक्षणात् १। एवं दूत्यपि भावनीया, नवरं दूती परसन्दिष्टार्थकथिका २ । निमित्तम् अतीताद्यर्थपरिज्ञानहेतुशुभाशुभचेष्टादि ३ । आजीवो जीविका ४। वनीपको भिक्षाचरः, तस्येव यत् समाचरणं तदपि वनीपकः ५। चिकित्सा रोगप्रतीकारः ६। क्रोध मान-माया-लोभाः प्रतीताः ७-१० । पूर्वसंस्तवो मात्रादिकल्पनया परिचयकरणम्, पश्चात्संस्तवः 5 श्वश्र्वादिविकल्पनया परिचयकरणम् ११। विद्या स्त्रीरूपदेवताधिष्ठिता ससाधना वा अक्षरविशेषपद्धतिः १२। सैव पुरुषदेवताधिष्ठितोऽसाधनो वा मन्त्रः १३। चूर्ण: सौभाग्यादिजनको द्रव्यक्षोदः १४। योग आकाशगमनादिफलो द्रव्यसङ्घातः १५ । एतेऽनन्तरोक्ता उत्पादनादोषाः। षोडशो दोषो मूलकर्म वशीकरणम् १६। इह धात्र्या पिण्डो धात्रीपिण्डः, किमुक्तं भवति? धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्डः, यस्तु दूतीत्वस्य 10 करणेनाऽऽसाद्यते स दूतीपिण्डः, एवं निमित्तादिष्वपि भावनीयम् ॥७-८॥ एसण गवेसणऽन्नेसणा य गहणं च होंति एगट्ठा । आहारस्सिह पगया, तीए दोसा इमे होंति ॥९॥ [पञ्चव० ७६१, पञ्चा० १३/२५] व्या० एषणमेषणा, एवं गवेषणा अन्वेषणा च ग्रहणं चेति भवन्ति स्युरेकार्थाः अनन्याभिधेया एते शब्दाः, एषणामात्राभिधायित्वात् । सा चानेकविषया, अत उच्यते15 आहारस्य भक्तादेः, न तु द्विपदादेः । इह एषणादोषप्रस्तावे प्रकृताः प्रस्तुताः । तस्याश्चैषणायाः पुनर्दोषा दूषणानि इमे एते वक्ष्यमाणा भवन्तीति गाथार्थः ॥९॥ संकिअ १ मक्खिअ २ निक्खित्त ३, पिहिअ ४ साहरिअ ५ दायगु ६ म्मीसे ७। अपरिणय ८ लित्त ९ छड्डिअ १०, एसणदोसा दस हवंति ॥१०॥ [पिण्डनि० ५२०, पञ्चव० ७६२, पञ्चाशक० १३/२६, प्रवचनसारो० ५६८] 20 व्या० शङ्कितं सम्भाविताधाकर्मादिदोषम् १ । म्रक्षितं सचित्तपृथिव्यादिनाऽवगुण्ठितम् २। निक्षिप्तं सचित्तस्योपरि स्थापितम् ३। पिहितं सचित्तेन स्थगितम् ४। संहृतम् अन्यत्र क्षिप्तम् ५। दायकं दायकदोषदुष्टम् ६। उन्मिश्रं पुष्पादिसम्मिश्रम् ७। अपरिणतम् अप्रासुकीभूतम् ८ । लिप्तं छर्दितं च भूमावा?]वेडितम् ९-१० । एते दश एषणादोषा भवन्ति ॥१०॥ सोलस उग्गमदोसा, गिहिआओ समुट्ठिए विआणाहि । 25 उप्पायणाए दोसा, साहूओ समुट्ठिए जाण ॥११॥ [पिण्डनि० ४०३] व्या० एतान् अनन्तरोक्तान् षोडशसङ्ख्यान् उद्गमदोषान् गृहिणः सकाशाद् उत्थितान् विजानीहि । तथाहि- आधाकर्मादिदोषदुष्टभक्तादि गृहस्थैरेव क्रियते । ये तु उत्पादनादोषा १. परस्परस्य स०- पञ्चाशकवृत्तौ । परस्परस० - प्रवचनसारोद्धारवृत्तौ ।। २. तुलना-पञ्चाशकटीका ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy