________________
10
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम्
१४५ उच्छिन्नं गृह्यते तदपमित्यम्, इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तम् ९ । तथा परिवर्तितं यत् साधुनिमित्तं कृतपरावर्त्तम् १० । तथा अभिहृतं यत् साधुदानाय स्वग्रामात् परग्रामाद्वा समानीतम्, अभि साध्वभिमुखं हृतं स्थानान्तरादानीतमभिहतमिति व्युत्पत्तेः ११। तथा उद्भेदनमुद्भिन्नम्, साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितस्योद्घट्टनम्, तद्योगाद्देयमपि घृतादि उद्भिन्नम् १२ । तथा मालात् मञ्चादेरपहृतं साध्वर्थमानीतं यद्भक्तादि 5 तन्मालापहृतम् १३ । तथा आच्छिद्यतेऽनिच्छतोऽपि भृतकपुत्रादेस्सकाशात् साधुदानाय परिगृह्यते यत्तदाच्छेद्यम् १४ । तथा न निसृष्टम् सर्वैः स्वामिभिस्साधुदानार्थमनुज्ञातं यत्तदनिसृष्टं १५। तथा अधि आधिक्येन अवपूरणं स्वार्थं दत्ताद्रहणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणम् अध्यवपूरः, स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः, तद्योगाद्भक्ताद्यप्यध्यवपूरकः १६ । षोडश उद्गमदोषाः ॥४-५॥ [पृ०२७०] उप्पायण संपायण, णिव्वत्तण मो अ होंति एगट्ठा ।
आहारस्सिह पगया, तीए दोसा इमे होंति ॥६॥ [पञ्चव० ७५३,पञ्चाशक १३/१७]
व्या० उत्पादनमुत्पादना एवं सम्पादना निवर्त्तना च । इह च पदत्रयेऽपि ह्रस्वता मोकारश्च निपातः प्राकृतत्वात्, चशब्दस्समुच्चये । भवन्ति स्युरेकार्था अनन्याभिधेयाः, सर्वेषामेवैषामुत्पादनाबोधकत्वात्, एते शब्दा इति गम्यम् । सा च सचेतना-ऽचेतनद्रव्यादिविषय- 15 त्वेनानेकविधेत्यत उच्यते-आहारस्याशनादेः, उपलक्षणत्वादस्य वस्त्र-पात्रादिपरिग्रहः, इह पिण्डाधिकारे प्रकृता प्रस्तुता तद्दोषाधिकारात् । तीए त्ति तस्याः पुनरुत्पादनाया गृहस्थात् सकाशात् साधुना स्वार्थं भक्ताद्युपार्जनरूपाया दोषा दूषणानि इमे त्ति वक्ष्यमाणतया प्रत्यक्षासन्ना भवन्ति स्युरिति गाथार्थः ॥६।।
अथोत्पादनादोषान् गाथाद्वयेनाहधाई १ दुई २ निमित्ते ३, आजीव ४ वणीमगे ५ तिगिच्छा ६ य । कोहे ७ माणे ८ माया ९, लोहे १० अ हवंति दस एए ॥७॥ पुव्विं पच्छा संथव ११, विजा १२ मंते १२ अ चुण्ण १३ जोगे १४ अ । उप्पायणाए दोसा, सोलसमे मूलकम्मे १६ अ ॥८॥ [पिण्डनि० ४०८-४०९, पञ्चव.७५४-५, पञ्चा० १३/१८-१९, प्रव० ५६६-७] 25 व्या० धात्री बालकपरिपालिका, इह धात्रीत्वस्य यत् करणं कारणं वा तद् धात्रीशब्देनोक्तं
20
१. "द्घाटनम्' इति पिण्डनियुक्तिवृत्तौ प्रवचनसारोद्धारवृत्तौ च पाठः ॥ २. तुलना-पञ्चाशकवृत्तिः ॥ ३. तुलनापिण्डनियुक्तिटीका, पञ्चाशकवृत्तिः, प्रवचनसारोद्धारवृत्तिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org