SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ १४४ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे तानेवाहआहाकम्मु १ देसिअ २, पूइकम्मे अ ३ मीसजाए ४ अ । ठवणा ५ पाहुडिआए ६, पाओअर ७ कीअ ८ पामिच्चे ९ ॥४॥ परिअट्टिए १० अभिहडे ११, उब्भिन्ने १२ मालोहडे १३ इअ । 5 अच्छिज्जे १४ अणिसढे १५, अज्झोअरए य १६ सोलसमे ॥५॥ [पिण्डनि० ९२-९३, बृहत्कल्पभा० ४२७५-४२७६, पञ्चाशक० १३/५-६, पञ्चव० ७४१-२, प्रवचनसारो० ५६४-५६५] व्या० आधाकर्मेति, आधानम् आधा, उपसर्गादात: [सि. ५।३।११०] इत्यङ् प्रत्ययः, साधुनिमित्तं चेतसः प्रणिधानम्, यथा अमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति 10 आधया कर्म पाकादिक्रिया आधाकर्म, तद्योगाद्भक्ताद्यपि आधाकर्म । इह दोषाभिधान प्रक्रमेऽपि यद्दोषवतोऽभिधानं तद्दोषदोषवतोरभेदविवक्षया द्रष्टव्यम्, यद्वा आधाय साधुं चेतसि प्रणिधाय यत् क्रियते भक्तादि तदाधाकर्म, पृषोदरादयः [सि. ३।२।१५५] इति यलोप: १। तथा उद्देशनमुद्देशो यावदर्थिकादिप्रणिधानम्, तेन निर्वृत्तमौदेशिकम् २। तथा उद्गमादिदोषरहिततया स्वतः पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धिकोटिभक्तादेरवयवेन सह सम्पर्कतः पूतेः पूतीभूतस्य 15 कर्म करणं पूतिकर्म, तद्योगाद्भक्ताद्यपि पूतिकर्म ३। तथा मिश्रेण कुटुम्बप्रणिधान साधुप्रणिधानमीलनरूपेण भावेन जातं यद्भक्तादि तन्मिश्रजातम् ४। तथा स्थाप्यते साधुनिमित्तं कियन्तं कालं यावन्निधीयते इति स्थापना, यद्वा स्थापनं साधुभ्यो देयमिति बुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना ५ । तथा कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत् प्राभृतमुच्यते, ततः प्राभृतमिव प्राभृतं 20 साधुभ्यो भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका । अतिवर्त्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानि [ ] इति वचनात् पूर्वं नपुंसकत्वेऽपि के प्रत्यये समानीते सति स्त्रीत्वम्, यद्वा प्र इति प्रकर्षण आ इति साधुदानलक्षणमर्यादया भृता निर्वर्त्तिता यका भिक्षा सा प्राभृता, ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका ६ । तथा साधुनिमित्तं मण्यादिस्थापनेन भित्त्याद्यपनयनेन वा प्रादुः प्रकटत्वेन देयस्य वस्तुनः करणम्, तद्योगाद्भक्ताद्यपि प्रादुष्करणम्, 25 यद्वा प्रादुः प्रकटं करणं यस्य तत् प्रादुष्करणम् ७ । तथा क्रीतं यत् साध्वर्थं मूल्येन परिगृहीतम् ८ । तथा पामिच्चे इति अपमित्य ‘भूयोऽपि तव दास्यामि'इति एवमभिधाय यत् साधुनिमित्तं १. 'सोलस पिंडुग्गमे दोसा' इति पञ्चवस्तुके प्रवचनसारोद्धारे च पाठः ॥ २. तुलना-पिण्डनियुक्तिवृत्तिः, प्रवचनसारोद्धारवृत्तिः ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy