________________
१४३
त्रिस्थानके चतुर्थोद्देशटीकागतगाथाविवरणम् दव्वे सुहुमपरट्टो, जाहे एगेण अह सरीरेणं । लोगम्मि सव्वपोग्गल परिणामेऊण तो मुक्का ॥२॥ [प्रवचनसारोद्धारे १०४३] व्या० अथ द्रव्ये द्रव्यविषयः सूक्ष्मः पुद्गलपरावर्तो भवति, यदा औदारिकशरीराणामेकेनान्यतमेन शरीरेणैको जीवस्संसारे परिभ्रमन् सर्वानपि पुद्गलान् स्पृष्ट्वा परिभुज्य परिभुज्य मुञ्चति । इयमत्र भावना-यावता कालेन सर्वेऽपि लोकाकाशभाविनः 5 परमाणवः औदारिकाद्यन्यतमैकविवक्षितशरीररूपतया परिभुज्य परिभुज्य निष्ठां नीयन्ते तावान् कालविशेषः सूक्ष्मद्रव्यपुद्गलपरावर्तः । पुद्गलानां परमाणूनामौदारिकादिरूपतया विवक्षितैकशरीररूपतया वा सामस्त्येन परावर्त्तः परिणमनं यावति काले स तावान् कालः पुद्गलपरावर्त्तः, इदं च शब्दव्युत्पत्तिनिमित्तमात्रम्, तेन च व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिप्रवृत्तिनिमित्तमनन्तोत्सर्पिण्यवसर्पिणीमानत्वरूपं लक्ष्यते, तेन क्षेत्रपुद्गलपरावर्तनादौ 10 क्षेत्रपुद्गलपरावर्त्तनाभावेऽपि प्रवृत्तिनिमित्तस्यानन्तोत्सर्पिण्यवसर्पिणीमानत्वरूपस्य विद्यमानत्वात् पुद्गलपरावर्तनशब्दः प्रवर्त्तमानो न विरुध्यते, यथा गोशब्दः पूर्वं गमने व्युत्पादितस्तेन च गमनेन व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिखुर-ककुद-लाफूलसास्नादिमत्त्वरूपं प्रवृत्तिनिमित्तमुपलक्ष्यते, ततो गमनरहितेऽपि गोपिण्डे प्रवृत्तिनिमित्तसद्भावाद् गोशब्दः प्रवर्त्तत इति । अणुक्कमेण नणु गणिज्ज त्ति एताँश्च पुद्गलान् अनुक्रमेण विवक्षितैकशरीरस्पृष्टतारूपया परिपाट्या ननु निश्चितं 15 गणयेत् । इदमत्र तात्पर्यम्- एतस्मिन् सूक्ष्मे द्रव्यपुद्गलपरावर्ते विवक्षितैकशरीरव्यतिरेकेणान्यशरीरतया ये परिभुज्य परिभुज्य त्यज्यन्ते ते न गण्यन्ते, किन्तु प्रभूतेऽपि काले गते सति ये विवक्षितैकशरीररूपतया परिणम्यन्ते त एव परमाणवो गण्यन्त इति । प्रथमपक्षाभिप्रायेण तु औदारिकादिसप्तकमध्यादन्यतमेन केनचित् पूर्वोक्तरीत्या सर्वपुद्गलस्पर्शेन सूक्ष्मपुद्गलपरावर्तो भवतीति ॥२॥ [पृ०२६९] तत्थुग्गमो पसूई, पभवो एमादि होंति एगट्ठा । सों पिंडस्सिह पगओ, तस्स य दोसा इमे होंति ॥३॥
पञ्चव०७४०, पञ्चा०१३/४] व्या० तत्रोद्गम: प्रसूति: प्रभव एवमादय एकार्थाः, स उद्गमादिः इह पिण्डस्य प्रकृत: प्रस्तावापन्नः, तस्य च पिण्डस्य इमे वक्ष्यमाणा दोषा भवन्ति ॥३॥ 25
20
१. फासेवि सव्वपोग्गल अणुक्कमेणं नणु गणिजा- इति प्रवचनसारोद्धारे उत्तरार्धम् ॥ २. तुलाप्रवचनसारोद्धारवृत्तिः।। ३. 'सो पिंडस्साहिगओ तस्स य भेया इमे होंति'- इति पञ्चवस्तुके पाठः । ‘सो पिंडस्साहिगओ इह दोसा तस्सिमे होंति' इति पञ्चाशके पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org