SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ १४२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [अथ त्रिस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम् ] पृ०२६६] आगंतुगारत्थजणो जहिं तु संठाइ जं वाऽऽगमणेण तेसिं । तं आगमोकं तु विदू वयंति सभा-पवा-देउलमाइअं च ॥६२। [बृहत्कल्पभा० ३४८६] 5 व्या० आगन्तुकः पथिकादिरगारस्थजनो यत्राऽऽगत्य सन्तिष्ठते यच्च तेषां पथिकादीनामागमने वर्तते तत् आगमौकः आगमनगृहं विद्वांसः श्रुतधरा वदन्ति । तच्च सभा वा प्रपा वा देवकुलादिकं वा मन्तव्यम् ॥- इति क्षेमकीर्तिसूरिविरचितायां बृहत्कल्पभाष्यटीकायाम् । पुनरपि गृहविशेषमाह10 अवाउडं जं तु चउद्दिसिं पि दिसामहो तिनि दुवे अ एक्का । अहे भवे तं विअडं गिहं तु उ8 अमालं च अतिच्छदं वा॥६३॥ [बृहत्कल्पभा० ३५००] व्या० विवृतगृहं द्विधा, अधो विवृतम् ऊर्ध्वं विवृतम् च । यत् पार्श्वतश्चतसृषु तिसृषु वा दिक्षु द्वयोर्वा दिशोरेकस्यां वा दिशि अपावृतं कुड्यरहितं परमुपरिच्छन्नं तदधोविवृतं गृहं भवेत् । यत् पुनरमालं मालरहितम्, अच्छन्नं वा छाद्यरहितम्, परं पार्श्वतः कुड्ययुक्तं तदूर्ध्वविवृतं 15 भवति । [पृ०२६८] ओराल १ वेउव्वा २ तेअ ३ कम्म ४ भासा ५ णुपाण ६ मणगेहिं। फासेवि सव्वपुग्गल मुक्का अह बायरपरट्टो ॥६४॥ [प्रवचनसारो०१०४१] व्या० एकेन जन्तुना विकटां भवाटवीं पर्यटता अनन्तेषु भवेषु औदारिक-वैक्रिय-तैजसकार्मण-भाषा-ऽऽनपान-मनोलक्षणपदार्थसप्तकरूपतया चतुर्दशरज्ज्वात्मकलोकवर्तिनः सर्वेऽपि 20 पुद्गलाः सर्वेऽपि स्पृष्ट्वा परिभुज्य यावता कालेन मुक्ता भवन्ति, एष बादरद्रव्यपुद्गलपरावर्त्तः। किमुक्तं भवति ? यावता कालेनैकेन जीवेन सर्वेऽपि जगद्वर्तिनः परमाणवो यथायोगमौदारिकादिसप्तकस्वभावत्वेन परिभुज्य परिभुज्य परित्यक्तास्तावान् कालविशेषो बादरद्रव्यपुद्गलपरावर्त्तः। आहारकशरीरं चोत्कृष्टतोऽप्येकजीवस्य वारचतुष्टयमेव सम्भवति, ततस्तस्य पुद्गलपरावर्त प्रत्यनुपयोगान्न ग्रहणं कृतमिति ॥१॥ १. “आगन्तुकश्चासौ अगारस्थजनश्च आगन्तुकागारस्थजनः पथिकादिः यत्र तु सन्तिष्ठते, कोऽर्थः ? पथिकागमनोपेतमेकं गृहम्, तेषां पथिकादीनाम् आगमनेन तदर्थम् आगमोक इति द्वितीयं गृहम्, तु पुनः सभाप्रपा-देवकुलादिकं तृतीयम्, एतत् त्रयं प्रतिमापन्नस्य वसतीनां विद्वांसो वदन्ति ॥” - इति सुमतिकल्लोलहर्षनन्दनगणिविरचिता व्याख्या तु अत्र असंगतैव प्रतीयते इति टिप्पणे उपन्यस्तास्माभिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy