SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् १४१ तदुभयानुशिष्टिर्यथा[पृ०२६३] कहकह वि माणुसत्ताइ, पाविअं चरणपवररयणं च । ता भो एत्थ पमाओ, कइआ वि न जुज्जए अम्हं ॥५८॥ व्या० कथं कथमपि महता कष्टेन मानुषत्वादि प्राप्तं च पुनः चरणप्रवररत्नं प्राप्तम्, ता तस्मात् भो ! इति शिष्यामन्त्रणम् । अत्र चरणे प्रमादो निद्राविकथादिरूपः कदापि 5 न युज्यते अस्माकमिति ॥५८॥ चोल्लगदिटुंतेणं, दुलहं लहिऊण माणुसं जम्मं । जं न कुणसि जिणधम्मं, अप्पा किं वेरिओ तुज्झ ? ॥५९॥ व्या० चोल्लग इति देशीशब्दो भोजनपर्यायः, तस्य दृष्टान्तः, चक्रवर्तिगृहभोजनं यथा तस्य ब्राह्मणस्य द्वितीयं वारं दुष्करम्, तद्वल्लब्ध्वा मानुषं जन्म यज्जिनधर्मं न करोषि तर्हि 10 आत्मा किं वैरी तव, यदि आत्मनः सज्जनत्वं तवास्ति तदा आत्मनो हितं धर्मं कुरु इति शिक्षावचः ॥५९॥ परोपालम्भो यथाउत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुमं वच्छ । उत्तमनाणगुणड्ढो कहं सहसा ववसिओ एवं ॥६०॥ व्या० त्वं वत्स ! उत्तमकुलसम्भूतः, पुनस्त्वम् उत्तमगुरुदीक्षितः, उत्तमज्ञानगुणाढ्यः एतावता पक्षत्रयेऽप्युत्तमत्वं दर्शितम्, कथं सहसा एकपदेनैव व्यवसितः अवसन्नीभूतः एवममुना प्रकारेणेत्यर्थः ॥६०॥ तदुभयोपालम्भो यथाएगस्स कए नियजीविअस्स, बहुआओ जीवकोडीओ। दुक्खे ठवंति जे केइ ताणं किं सासयं जीयं ॥६१॥ व्या० एकस्य निजजीवितस्य कृते निजायुष्कारणाय बह्वीः जीवकोटी: दुःखे स्थापयन्ति दुःखिताः कुर्वन्ति तेषां किं शाश्वतं जीवितमिति ॥६१।। त्रिस्थानकस्य तृतीय उद्देशः । - 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy