________________
१४०
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
[पृ०२६१] दुविहो उ भावधम्मो, सुअधम्मो खलु चरित्तधम्मो अ ।
सुअधम्मो सज्झाओ, चरित्तधम्मो समणधम्मो ॥५५॥ [दशवै०नि० ४३] व्या० द्विविधस्तु द्विप्रकारो भावधर्मः, तथा चाह-श्रुतधर्मः खलु चारित्रधर्मश्च । तत्र श्रुतं द्वादशाङ्गम्, तस्य धर्मः श्रुतधर्मः । खलुशब्दो विशेषणार्थः, किं विशिनष्टि? स 5 हि वाचनादिभेदाच्चित्र इति, आह च-श्रुतधर्म: स्वाध्यायः वाचनादिरूपस्तत्त्वचिन्तायां
धर्महेतुत्वाद्धर्म इति । तथा चारित्रधर्मश्च, तत्र चर गति-भक्षणयोः [पा.धा.५५९?]इत्यस्य अतिलू-धू-सू-खनि-सहि-चरिभ्य इत्रन् [का० ३।२।१८४] इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति । चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम्, अशेषकर्मक्षयाय चेष्टेत्यर्थः । तत्र चारित्रमेव धर्मश्चारित्रधर्मः इति, चः समुच्चये । अयं च श्रमणधर्म एवेत्याह- चारित्रधर्मः 10 श्रमणधर्म इति । तत्र श्राम्यतीति श्रमणः कृत्यल्युटो बहुलम् [पा० ३।३।११३] इति वचनात्
कर्तरि ल्युट्, श्राम्यतीति तपस्यति, एतदुक्तं भवति- प्रव्रज्यादिनादारभ्य सकलसावद्ययोगविरतो गुरूपदेशादनशनादि यथाशक्त्याऽऽप्राणोपरमात्तपश्चरतीति, यदुक्तम् -
यः समः सर्वभूतेषु, बसेषु स्थावरेषु च ।
तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः ॥१॥ [ ] इति । 15 तस्य धर्मः स्वभावः श्रमणधर्मः । स च क्षान्त्यादिलक्षणो वक्ष्यमाणः [इति] दशवैकालिकनियुक्तिटीका ॥५५॥
[पृ०२६३] अनुशिष्टिरनुशासनम्, तत्रात्मनो यथाबायालीसेसणसंकडम्मि गहणम्मि जीव ! नहु छलिओ ।
इण्हिं जह न छलिजसि, भुंजंतो रागदोसेहिं ॥५६॥ [ओघनि० ५४५, पञ्चव. ३५४] 20 व्या० इहैषणाग्रहणेन एषणागता दोषा अभिधीयन्ते, ततोऽयमर्थः- द्विचत्वारिंशत्सङ्ख्या
ये एषणादोषा गवेषणाग्रहणैषणादोषास्तैः सङ्कटे विषमे ग्रहणे भक्त-पानादीनामादाने हे जीव! त्वं नैव छलितस्तत इदानीं सम्प्रति भुञ्जानो राग-द्वेषाभ्यां यथा न छल्यसे तथा कर्त्तव्यमिति शेषः ॥५६॥
परानुशिष्टिर्यथा25 ता तंसि भाववेजो, भवदुक्खनिपीडिआ तुहं एते ।
हंदि सरणं पवन्ना, मोएअव्वा पयत्तेणं ॥५७॥ [पञ्चव० १३५१]
व्या० तत् त्वमसि भाववैद्यो वर्त्तसे, भवदुःखनिपीडितास्सन्तस्तवैते साध्वादयो हन्दि शरणं प्रपन्नाः प्रव्रज्यादिप्रतिपत्त्या मोचयितव्याः प्रयत्नेन सम्यक्प्रकारेणेति गाथार्थः ॥५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org